This page has not been fully proofread.

३२८
 
उपाधिखण्डने
 
(म. टि.) नन्वेक एव देवदत्तो नानोपाधिसम्बन्धात् नाना व्यवहियते । न च व्यवह्रियमाणभेदाभावे व्यवहार-
भेदः सम्भवति । तस्मादुपाघिर्भेदकारक इति । अत आह ॥ न च दण्डेति ॥
 
विशिष्टस्य पदार्थान्तरत्वे पूर्वपक्षः
 
नाद्यः,
 
ननु विशेषणविशेष्यतत्सम्बन्धातिरिक्तं न विशिष्टं पश्यामः । तथा हि, तत्किं नित्यं ? अनित्यं वा ?
सर्वदोपलम्भप्रसङ्गात् । विशेषण विशेष्यसम्बन्धोऽभिव्यञ्जकः ततो न सर्वदोपलब्धिरिति चेत् स किं
सत्तया ज्ञापक: ? किं वा ज्ञाततया ? नाद्यः, विशेषणविशेष्यतत्सम्बन्धज्ञानाभावेऽपि विशिष्टधीप्रसङ्गात् । न
द्वितीयः । सम्बन्धविशेषणविशेष्यज्ञानादेव विशिष्टव्यवहारोपपत्तौ तज्ज्ञाप्य विशिष्ट विषयकज्ञानात् तद्व्यवहारकल्पने
गौरवात् । नाप्यनित्यमिति द्वितीयः । समवायिकारणाभावात् । तथा हि, न तावत् विशेषणविशेष्याभ्याम-

न्यत् समवायिकारणं सम्भाव्यते । विशेषणविशेष्ययोरपि न प्रत्येकमुपादानत्वम् । एकस्य द्रव्योपादानत्वा-
योगात् । मिलितयोश्चेदुपादानत्वं, तदा 'रूपी घटः' इत्यत्र रूपी नाम विशिष्टो रूपारब्धो घटारब्धश्चेत्युररी-
करणीयम् । तच्चायुक्तम् । गुणस्य समवायिकारणस्याभावात् । द्रव्यगुणारब्धस्य तदुभयात्मकत्वापत्त्या
द्रव्यत्वगुणत्वयोः साङ्कर्यप्रसाच्च । अपि च यावन्ति विशेषणानि तावन्ति विशिष्टान्यङ्गीकरणीयानि । तानि
चैकस्मिन्नेव विशेष्ये वर्तन्त इति मूर्तानां सामानाधिकरण्यं प्रसज्येतेति कथं विशिष्टद्वयस्यैवोत्पत्तेः
2
इत्युक्तं ? इति ।
 
1
 
अत्रोच्यते,
 
विशिष्टस्य पदार्थान्तरत्वसमर्थनम्
 
दण्डीत्या दिव्यवहृतेर्मूलभूता विशिष्टधीः ।
 
विभिन्न पुरुषादिभ्यो विशिष्टमवलम्बते ॥
 
-
 
(
 
दण्डीत्यादि विशिष्टव्यवहारनिमित्तं विशिष्टज्ञानं तावदङ्गीकार्यं । विशिष्टज्ञानं विना विशिष्टव्यवहारानुद-
यात् । यच्च विशिष्टज्ञानालम्बनं तदेव विशिष्टं नाम । आलम्बनान्तरानिरूपणात् । तथा हि, दण्डीत्यादिवि -
शिष्टप्रत्यये किं विशेषणविशेष्यौ विषयौ ? किं वा अगृहीतासंसर्गौ तावेव ? यद्वा विशेषणविशेष्यतत्सम्बन्धाः?
अदण्डिव्यावृत्तं देवदत्तस्वरूपमात्रं वा ? आद्यऽपि किं प्रत्येकं तयोर्विषयत्वं ? किं वा मिलितयोः ? नाद्यः,
दण्डदेवदत्ताद्येकैकज्ञानेनापि विशिष्टव्यवहारप्रसङ्गात् । न द्वितीयः, 'इमौ दण्डदेवदत्तौ' इति गृहीतासंसर्गेण
विशेषणविशेष्यविषयकसमूहालम्बनज्ञानेनापि विशिष्टव्यवहारप्रसङ्गात् । नापि द्वितीयः, 'इमौ दण्डदेवदत्तौ'
 
1 समवायिकारणत्वाभावात् इति पाठेन भाव्यमिति भाति,
 
2 विशिष्टद्वयोत्पत्तेः इत्युक्तं ? इति.