उपाधिखण्डनम् /20
This page has not been fully proofread.
सत्योपाधिकृतसत्यभेदवाद्यद्वैतवादानुवादनिरसौ
३२७
(मं. टि.) ननु लोके बिम्बप्रतिबिम्बयोः सत्यभेदाभावात् तदात्मकयोर्जीवब्रह्मणोः कथं सत्यभेदः ? इति
मायावादिशङ्कां निरस्यति ॥ अंशांशिभावेनेति ॥ अंशांशिनोर्विरुद्ध परिमाणयोर्लोकेऽपि दृष्ट: पारमार्थिक भेद
इति भावः ।
मायावादे दूषणसमुच्चयाभावात् चशब्दानुपपत्तिमाशङ्कयाह ॥ मायावाद इत्यादिना चशब्दार्थ-
इत्यन्तेन ॥ नात्र मायावादे दूषणद्वयं समुच्चीयते । किं तर्हि ? सत्योपाधिवादे उपाधिकृतभेदानुपपत्तिः सार्वज्ञ्या
दिव्यवस्थानुपपत्तिश्च समुच्चीयत इत्यर्थः ।
उपाधेर्विद्यमानावयवभेदज्ञापकत्वं
(टी.) कुतः सत्योपाधितः सत्यभेदोत्पत्तिर्न युज्यते ? इत्यत आह
विद्यमानस्य भेदस्य ज्ञापको नैव कारकः ॥ ४ ॥
उपाधिष्टपूर्वो हि..
।
हिशब्दो हेतौ । यस्मात् महारजनायुपाधिर्विद्यमानस्यैव पटाद्यवयवभेदस्य ज्ञापक एव दृष्टपूर्वो
न तु प्रागविद्यमानस्य कारकः । अतो भेदयोपाधितः कुतः इति सम्बन्धः । अत्र उपाधिः कारको
न दृष्टपूर्व इत्येतावदेव वक्तव्यम् । विद्यमानस्य ज्ञापक इत्युक्तिस्तु ' कारकत्वाभावे वैयर्थ्यं स्यात् '
इति शङ्कानिरासार्था इति ज्ञातव्यम् ।
(मं. टि.) कारणानुगुणं कार्यं भविष्यतीति शङ्कते ॥ कुतः सत्योपाधित इति ॥ भेदस्योपाधिकार्यत्व-
मेवासिद्धमित्याह ॥ अत आहेति ॥
उपाधेरवयविभेदकत्वाभावः
(टी.) न च महारजनादिः पटस्यैव भेदकः 'द्वौ पटौ' इत्यप्रतीतेः । न च दण्डकुण्डलो-
पाधिभ्यां एक एव देवदत्तो भिद्यत इति वाच्यम् । देवदत्तभेदस्य अप्रतीतेः । दण्डकुण्डलसम्बन्धात्
विशिष्टद्वयस्यैवोत्पत्तेः । न चैवमेवास्तु प्रकृते इति वाच्यम् । उपाध्यपगमे जीवस्य विनाश एव न
ब्रह्मैक्यापतिः इत्यापत्तेः । जीवे नष्टे स्वरूपमात्रावशेष एव तथोच्यत इति चेत् । तर्हि ब्रह्मण्येव
बन्धमोक्षावङ्गीकृतौ स्याताम् इत्युक्तदोषापत्तिरिति ।
(मं. टि.) ननु महारजनाद्यपाधिर्यदि नामांशानां भेदक: स्यात् तदा ज्ञापकः स्यादपि तेषां पूर्वमेव
भिन्नत्वात् । न चैवं । पढ़ प्रत्येव भेदकत्वादिति मन्दाशङ्कां परिहरति ॥ न च महारंजनादिरिति
}}