This page has not been fully proofread.

३२६
 
उपाधिखण्डने
 
(मं. टि.) मुक्तावपि 'ब्रह्म वेद ब्रह्मैव भवति' इति ब्रह्मत्वस्यानपायश्रवणात् । अन्यथा उपचरितार्थत्वप्रसङ्गात् ।
किं च स्फुरणस्यैव अज्ञानविरोधित्वोपपादनात् कथं चैतन्यस्याज्ञानसम्बन्धः । अपि च वक्ष्यमाण आकाशस्य
उपाधिसम्बन्धनिरासप्रकारोऽत्रापि द्रष्टव्य इत्यलं प्रपञ्चेन ।
 
चैतन्यमात्रस्याज्ञाननिरासप्रपञ्चस्तु
 
मोहं तत्साधक: साक्षी साधयेदहमो यदा ।
अज्ञोऽहमिति केन स्याच्चिन्मात्रस्याज्ञता तदा ॥
 
इत्यादिन। अन्यत्रास्माभिः कृतो द्रष्टव्यः । अज्ञानस्यैव प्रतिफलनार्हत्वलक्षणोपाधित्वपक्षे दूषणान्तरमाह
॥ बिम्बेति ॥ ततश्योपाधेः प्रतिबिम्बपक्षपातित्वस्वभावकल्पनं चाप्रामाणिकमिति भावः ।
 
सत्योपाधिकृतसत्यमेदवाद्य द्वैतवादानुवादनिरासौ
 
(टी.) अपर आह, 'स्यादिदं मायावादिनां दूषण, नास्माकं । 'एकमेव ब्रह्म अन्तःकरणाद्यनन्तोपा-
ध्यवच्छेदात अनन्तजीवभावमापाद्यते' इत्यङ्गीकारेऽऽपि भेदस्य उपाधीनां च अस्माभिर्मिथ्यात्वा-
नङ्गीकारात् । भेदसत्यत्वाङ्गीकारेऽपि स्वाभाविकभेदानङ्गीकारेण अद्वैतवादाविरोधात् । उपाधेः
अज्ञानकल्पितत्वाभावेन अनवस्थाद्यभावात् । अंशांशिभावेन विम्बप्रतिबिम्बभावाभावात् । अतो
ब्रह्मजीवसम्बन्धिनी सर्वज्ञत्वाज्ञत्वे न विरुद्धयेते' इति तत्राह
 
• भेदश्योपाधितः कुतः ।
 
मायावादे ह्युपाधे र्भेदस्य च कल्पितत्वेन अनवस्थादिदोषप्रसक्तावपि उपाधिनिमित्तो भेदाव-
भास इत्येतावानंशो युज्यते । अङ्गुल्यवष्टम्भादिना चन्द्रादिभेदाध्यासदर्शनात् । अस्मिंस्तु पक्षे
अनवस्थादिदोषाभावेऽपि उपाधितः भेदो भवतीत्येतन्न युज्यते । तदयोगे च जीवब्रह्माश्रयतया
अज्ञता सर्वज्ञत्वयोर्व्यवस्थानं सुतरां न युज्यते इति चशब्दार्थः ।
 
(मं. टि.) मायावादिभिः भेदस्योपाधिकृतत्वानङ्गीकारात् भेदश्योपाधितः कुतः ? इत्यनुक्तोपालम्भमाशङ्कय
मतान्तरनिराकरणपरतया भेदश्च इति पादं व्याख्यातुं शङ्कते ॥ अपर आहेति ॥ अन्तःकरणादीत्या दिशब्देन
स्थूलोपाधिं देहं विवक्षति ॥ मिथ्यात्वानङ्गीकारादिति ॥ प्रत्यक्षादिप्रमाणसिद्धत्वादित्यर्थः ॥ अद्वैतवादा-
विरोधादिति ॥ सत्यस्याप्युपाध्यधीनस्य उपाधिनिवृत्त्या निवृत्तेः । न च पूर्वं भिन्नस्य पश्चात् कथमभेद: ? इति
वाच्यम् । ज्ञानेनाभेदस्य सम्पादनात् । औपाधिक भेद निवृत्तौ तदभावलक्षणाभेदावश्यम्भावाच्चेति भावः ।
अस्मिन् पक्षे अज्ञानस्योपाधिसापेक्षत्वेऽपि नोपाधेरज्ञानसापेक्षत्वं । तदकल्पितत्वात् । तस्मान्नान्योन्याश्रयादि-
रित्याह ॥ उपाधेरिति ॥
 
S
 
-