This page has not been fully proofread.

जीवाज्ञानवादिमायिमते अज्ञानोपाध्योरभेदे अपसिद्धान्तात्माश्रयदोषौ
 
३२५
 

 
(मं. टि.) चित् स्वतो नियताश्रयत्वमङ्गीक्रियते । न चैवं त्वया अङ्गीकर्तुं शक्यम् । अज्ञानादेरपि ब्रह्मण्यद्वितीये
स्वतोऽसम्भवादिति भावः । ननु उत्पत्त्याद्यप्रतिबन्धकत्वात् नान्योन्याश्रयादि दूषणमित्यत आह ॥ उत्पत्ति-
ज्ञप्त्योरिवेति ॥ प्रवृत्त्यादेरिति ॥ अत्र आदिशब्देन नियमनं विवक्षितं । प्रवृत्तिग्रहणं तु दृष्टान्तार्थं । 'यथा
स्वप्रवर्त्यस्य स्वप्रवर्तकत्वे स्वस्यैव स्वप्रवर्तकत्वे वा प्रवृत्तिप्रतिबन्धः एवं स्वनियम्यस्य स्वनियामकत्वे स्वस्यैव
स्वनियामकत्वे वा नियमनप्रतिबन्धः स्यात् । 2" येन आकारेण यत् यन्नियम्यं न तत् तेन आकारेण
तन्नियामकं ' इति व्याप्तेः नियम्यनियामकभावस्य भेदगर्भत्वाच्चेत्यर्थः ।
 
जविवाशानवादिमायिमते अज्ञानस्योपाधिवे अनुपपत्तयः
 
किं च उपाधेरत्यन्तासतः चैतन्यसम्बन्धे अतिप्रसङ्गात् प्रातिभासिकत्वं वक्तव्यं । न च तद्व
शक्यं । प्रातिभासकत्वस्य प्रतिभाससम्बन्धाधीनत्वेन अन्योन्याश्रयप्रसङ्गात् । अपि चायमुपाधिः किं
केवलचैतन्यवेद्यः? किं वोपाधिभिन्नचैतन्यवेद्यः ? नाद्यः आरोपितस्य यावत्प्रतीत्यनुवर्तननियमेन तदनुवृत्ति-
प्रसङ्गात् । न द्वितीयः । अन्योन्याश्रयात् । किं चायं घटादिः गगन इव ब्रह्मण्युयाधिः? । किं
वा दर्पणादिर्मुख इव? यद्वा अङ्गुल्यवष्टम्भादिश्चन्द्र इव ? अथ वा जपाकुसुमादिः स्फटिकादा-
विव ?
नाद्यः । असङ्गस्याज्ञानेतरसम्बन्धाभाववत् स्वभावतोऽज्ञानसम्बन्धस्याप्यनुपपत्तेः । न द्वितीयः ।
आत्मनोऽतीन्द्रियस्य प्रतिबिम्बनासम्भवात् । अतीन्द्रियस्यापि प्रतिबिम्बने पर्वतगतगुरुत्वस्यापि आदर्श प्रति-
बिम्बनेन आदर्शस्यानुद्धार्यत्वप्रसङ्गः । नापि तृतीयः प्रमेयसम्बन्धित्वेन त्वया अङ्गीकारात् । करणा-
सम्बन्धित्वाच्च । न चतुर्थ: स्वगतधर्मानुपसङ्क्रामकस्यात् । न हि जपाकुसुमादौ रक्तत्वमिवाज्ञा-
नादौ दुःखाद्यनुसन्धातृत्वमस्ति । किञ्च औपाधिक इति कोऽर्थः । किमुपाधिकृत इति ? किंवा
उपाधिज्ञापित इति ? नाद्यः सत्वाविरोधेन मयाऽपि तदङ्गीकारात् । द्वितीयेऽपि किं विद्यमान एव
ज्ञाप्यते ? किंवा अविद्यमानप्रतिभासमात्रं क्रियते ? नाद्यः इष्टापत्तेः । न द्वितीय : प्रमेयसम्बन्ध्युपाधे:
तदभावस्य वक्ष्यमाणत्वात् । किं च अयं विभाग: किं सादि: ? उत अनादिः ? नाद्यः मुक्तस्य संसारप्रसङ्गात् ।
न द्वितीयः । अध्यस्तत्वायोत् । न हि स्वरूपेणानादिरध्यस्यते । अन्यथा ब्रह्मणोऽपि तथाभाव: प्रसज्येत ।
यच्चोक्तमुपाधेः प्रतिबिम्बपक्षपातित्वमिति तन्न । तथात्वे विम्चस्थानीयब्रह्मगत सर्वज्ञत्वादेरनुपाधिकत्वापातात् ।
 
चैतन्यमाञस्याज्ञानसम्बन्धानुपपत्तिः
 
?
 
किं च चैतन्यमात्रस्याज्ञानसम्बन्धः किमौपाधिकः? किं वा स्वाभाविकः । आद्यऽनवस्थादिः ।
द्वितीये आनन्दादिवद निवृत्तिप्रसङ्गः । किं च न मुखमात्रवत् चैतन्यमात्रमस्ति । ब्रह्मादिभावस्यानादित्वात् ।
तत्प्रवत्र्यस्य तत्प्रवर्तकत्वे.
 
-
 
* किंचोपाधेभिन्नचेतनवेद्यः
 
4 निर्विशेषम्य प्रतिबिम्बनानपपत्तेः । नापि तृतीयः
 
2 येनाकारेण यन्नियम्यं.