उपाधिखण्डनम् /17
This page has not been fully proofread.
३२४
उपाधिखण्डने
(मं. टि. )भ्युपगमादिति भावः । यद्वा अज्ञानस्य कल्पितत्वं वदता तस्यानादित्वे कल्पितत्वायोगात् सादित्वे
वाच्ये उपादानान्तराभाबात् ' अज्ञानोपादानकत्वस्य अर्थादङ्गीकृतत्वादिति भावः । अथ वा अज्ञानस्य कल्पितत्वं
वदता अन्तःकरणादेरिव अज्ञानस्याधिष्ठानचैतन्यावरणं विना कल्पनायोगात् अज्ञानं च विना आवरणान्तरा-
भावात् अज्ञानकल्पनावि अज्ञानाधीनेत्यर्याद ङ्गीकृतत्वादिति भावः । आद्यं दूषयति ॥ आद्ये त्वात्माश्रयः
स्यादिति ॥
1
एतेनैतदपि निरस्तं, यथा भवतां भेदो भेदान्तरमन्तरेणैव भिन्नः एवमज्ञानमज्ञानान्तरमन्तरेणैव
कल्पितम् । यथोक्तं,
भेद्यं च भेद च भिनत्ति भेदो यथैव भेदान्तरमन्तरेण ।
मोहं च कार्यं च भिनत्ति मोहस्तथैव मोहान्तरमन्तरेण ॥ इति ।
अज्ञानान्तरानपेक्षणेनानवस्थाया अभावेऽपि आत्माश्रयापरिहारात् । न च भेदः प्रतिबन्दी । न हि
यथा त्वया अज्ञानेतराध्यासः अज्ञानसापेक्ष: अज्ञानाध्यासस्तु तन्निरपेक्ष इति स्वीक्रियते तथा मया स्वरूपभेद -
वादिना घटादौ भिन्नत्वं भेदान्तरसापेक्षं भेदे तु तन्निरपेक्षमित्यङ्गीकियते । किं नाम ? सर्वत्र निरपेक्षमिति ।
तथा च त्वयापि तद्वदेव अन्तःकरणाध्यासोऽपि अज्ञाननिरपेक्ष इत्यङ्गीकार्यं स्यात् । तथा चापसिद्धान्त
इत्यलम् ।
६.
शङ्कते ॥ नन्विति ॥ चशब्देन अज्ञानकार्योपाधेरपि प्रवाहतोऽनादित्वमुक्तं । किं नामेत्यत्र
अज्ञानशब्देन तदुपादानकोपाधिरपि विवक्ष्यते ॥ अज्ञानाधीन एवेति ॥ यथा अज्ञानसम्बन्धस्य षडस्माक-
मनादयः' इत्युक्तत्वेन अनादित्वेऽप्यज्ञानाधीनत्वं सम्बन्धस्य सम्बन्धिनिरूप्यत्वात् तद्वत् 2 जीबब्रह्मविभा-
गोऽपि अनादिरपि अज्ञानाधीन इत्यर्थः । कथमात्माश्रयादिकं ? इत्यत्र 'प्रकृतार्थे दूषणमिति शेषः । विभाग-
स्याज्ञानाधीनत्वं तत्कृतोपकाराभावे न सम्भवतीत्युपकारो वक्तव्यः । स च नोत्पत्तिः । अनादित्वेनैव त्वया
अङ्गीकारात् । नापि ज्ञप्तिः । अज्ञानाद्यप्रतीतावपि ' अहमन्यः' इति विभागप्रतीतेरित्या ॥ किञ्चिदुप-
काराभाव इति ॥
एतेन सम्बन्ध प्रतिबन्धपास्ता । सम्बन्धप्रतीतेः सम्बन्धिपतीतिसापेक्षत्ववत् विभागप्रतीते: अज्ञानप्रतीति-
सापेक्षत्राभावात् । अथ द्रव्यत्वगुणित्वयोरिवानादित्वेऽपि प्रयोज्यप्रयोजकभाबोऽङ्गीक्रियते । तत्र यथा गुणित्वस्य
द्रव्यत्वाधिकरण नियामकत्वात् तत्प्रयोजकत्वं एवं प्रकृतेऽपि अज्ञानादेर्विभागाधिकरण नियामकत्वात् तत्प्रयोज-
कत्वं । ततो विभागस्याज्ञानाधीनत्वमुपपन्नमिति तत्राह ॥ तद्भावे त्विति ॥ अस्माभिस्तु गुणित्वादेः कस्यं
। अज्ञानोपादानकत्वस्यापि
2जीवब्रह्मविभागोऽनादिरपि. 3
प्रकुतार्थदूषणमिति.