उपाधिखण्डनम् /16
This page has not been fully proofread.
जीवाज्ञानवादि माथिमते अज्ञानोपाध्योर्भेदे चक्रकदोषः
३२३
(मं. टि.) पक्षे वैकल्पिकदूषणद्वयायोगादित्यर्थः ॥ अथ वा इत्यत्र निपातसमुदायः किं व्यवस्थितविकल्पार्थः? किं
वा अव्यवस्थितविकल्पार्थः । नाद्यः । ' उपाधौ सति तद्भिन्नस्य जीवस्याज्ञानं, अज्ञाने सत्युपाधिः' इत्यन्योन्या-
श्रयपक्ष एव ' उपाधौ सति भेदः, भेदे सत्यज्ञानं, अज्ञाने च सति उपाधि ः' इति चककाश्रयोक्तेः पक्षभेदा-
भावात् । न द्वितीयः । कोटित्रयसद्भावेन अन्योन्याश्रयविकल्पानुपपत्तेरित्यत आह ॥ यद्यपीत्यादिना ॥
व्यवस्थितविकल्पार्थ एव निपातसमुदायः । न च पक्षभेदाभावः । परम्पराश्रयणपक्षे अन्योन्याश्रयः । तदना-
श्रयणे च चक्रकापत्तिरिति पक्षभेदात् । अत एव अथ वेत्ययं निपातसमुदायः इति टीकायां पक्षान्तर-
शब्देन परम्परानाश्रयणपक्षो विवक्षित इति द्रष्टव्यम् । अथ वा उक्तविकल्पं अथशब्दोऽद्योतयत् । वाश
ब्दोऽनुक्त विकल्पार्थ इत्याह ॥ अथ वेति ॥
,
जीवाज्ञानवादिमायिमते अज्ञानोपाध्योरभेदे अपसिद्धान्तात्माश्रयदोषौ
(टी.) तत्रेयमाशङ्का । स्यादेतदन्योन्याश्रयादिकं यदि अन्तःकरणादिकं अज्ञानार्दन्यदेवोपा-
घितया अङ्गीक्रियते । न चैत्रम् । अज्ञानस्योपाधितया अङ्गीकारात् ।
नन्वविद्या किंसम्बन्धिनी भेदनिमित्तं । दर्पणादिद्रव्यमपि किंसम्बन्धि भेदनिमित्तं । मुख-
मात्रसम्बन्धि इति चेत् इहापि चित्स्वरूपमात्र सम्बन्धि अज्ञानं जीवब्रह्मभेदं करोति । स्वरूपमात्र-
सम्बन्धिनोप्यज्ञानस्य जीवभागपक्षपातिता दर्पणादिवत् युज्यत इति ।
तत्रापि वक्तव्यं तत् अज्ञानमज्ञानकल्पितं ? उत न ? इति । नेति पक्षे पूर्ववदपसिद्धान्तः ।
आद्ये त्वात्माश्रयः स्यादिति । नन्वज्ञानं जीवब्रह्मभेदश्चानादिरेव । किं नाम ? अज्ञानाधीन एवेति
कथमात्माश्रयादिकं ? इति । मैवं । किञ्चिदुपकाराभावे तदधीनताया एव मृषात्वात् । तद्भावे
त्वात्माश्रयाद्यनिस्तारात् । उत्पत्तिज्ञप्त्योरिव प्रवृत्त्यादेरपि प्रतिबन्धेन तस्य दूषणत्वात् । बिम्बप्रति-
बिम्बयोरभेदाभावस्यान्यत्रोपपादितत्वात् दृष्टान्तो निरस्त एव ।
L
(मं. टि.) नन्वज्ञानमेव चेदुपाधिस्तर्हि तदेव भेदकं वाच्यम् । तथा च तल्कि असम्बद्धं भेदनिमित्तं ?
उत सम्बद्धं ? आद्येऽतिप्रसङ्गः । द्वितीयं विकल्पयति ॥ नन्वविद्या किंसम्बन्धिनीति ॥ अविद्या जीवसम्बन्धिनी
ब्रह्मसम्बन्धिनी वा ? नोभयमपि । तद्विभागस्य अविद्याऽधीनत्वादिति किंशब्दार्थः । दर्पणादिद्रव्यमपि किं बिम्ब-
सम्बन्धि भेदनिमित्तं ? किं प्रतिबिम्बसम्बन्धि ? नोभयमपि । तद्विभागस्य उपाधिसम्बन्धाधीनत्वादिति गूढाभिसन्धिः
पर: परिहरति ॥ दर्पणादीति ॥ चिन्मात्रसम्बन्ध्यज्ञानं भेदनिमित्तमिति गूढाभिसन्धिरंभिप्रायं विवरितुं शङ्कते
॥ मुखमात्रेति ॥ अभिप्रायं विवृणोति ॥ इहापीति ॥ दर्पणादिवयुज्यत इति ॥ उपाधेः प्रतिविम्बपक्षपाति-
वस्वाभाव्यादित्यर्थः ॥ पूर्ववदपसिद्धान्त इति ॥ अज्ञानस्या निर्वचनीयत्वं वदता तस्याप्यर्थादज्ञानकल्पितत्वा-