This page has not been fully proofread.

३२२
 
उपाधिखण्डने
 
.. वाऽन्योन्यसिद्धिता ॥ ३ ॥
 
(टी.) वाशब्दो व्यवस्थितविकल्पे । अन्योन्येन सिद्धिर्ययोस्तावन्योन्यसिद्धी तद्भावोऽन्योन्यसिद्धिता ।
अज्ञानोपाध्योरिति सम्बन्धः ।
 
जीवाशानवादिमायिमते अज्ञानोपाध्योर्भेदे चक्रकदोषः
 
ननूपाधेरज्ञाननिमित्तकत्वेऽप्यज्ञानस्य उपाधिहेतुकत्वाभावात् कथं इतरेतराश्रयः ? भेद एव
ह्युपाघिनिमित्तोऽङ्गीक्रियत इत्यत आह
 
चक्रकापत्तिरथ वा......
 
I
 
अथ वा इत्ययं निपातसमुदायः पक्षान्तरद्योतकः । यद्यपि भेद एवोपाध्यधीन उक्तः तथापि
उपाधिभिन्ने जीवेsपि अज्ञानमङ्गीक्रियमाणं परम्परया उपाधिहेतुकं भवेत् इति नेतरेतराश्रयः शक्यसमा-
धानः । परम्परानाश्रयणेऽपि चक्रकमापद्यत एव । अज्ञानाधीन उपाधिः तदधीनो भेदः
भिन्नाश्रयमज्ञानमिति । अथ वा अथशब्द एव पूर्वत्र सम्बद्ध्यते । वाशब्देन आत्माश्रयत्वादिकं पक्षान्तरे
सूचयति ।
 
(मं. टि.) ननु अज्ञानहेतौ इत्यत्र किं षष्ठीतत्पुरुषो विवक्षितः ? किं वा बहुव्रीहिः ? उभयं वा ? नाद्यद्वितीयौ ।
उपाध्यज्ञानयोः कार्यकारणभावाभावेनानवस्थानवकाशात् । न तृतीयः । युगपदुभयविवक्षायोगादित्यत आह
॥ अज्ञानहेताविति तत्पुरुषो बहुव्रीहिश्चेति ॥ उभयविवक्षानुपपत्ति परिहरति ॥ तन्त्रेणेति ॥ सकृदुच्चरित-
मनेकोपकारकं तन्त्रम् ॥ स इतीति ॥ स स्वभावतः इत्यतोऽनुषक्तस्य तच्छब्दस्य यथाश्रुत विभक्त्यङ्गीकारे
अनन्वयात् ' सक्तून् जुहोति' इत्यादाविव विभक्तिविपरिणामः क्रियत इति भावः । उपाधे: कारणभृताज्ञा-
नसापेक्षत्वेऽपि नाज्ञानस्योपाधिसापेक्षत्वं भेदमात्रसापेक्षत्वात् इत्याशङ्कयाह ॥ सति खलूपाधौ तद्भिन्नस्येति ।
नानवस्थेति ॥ बीजाङ्करादाविव उत्पत्तिज्ञप्ति प्रतिबन्धकत्वाभावेन नानवस्था दूषणमित्यर्थः । तत्र बीजाङ्कुरपरम्परा
प्रामाणिकी । अत्र त्वज्ञानादिपरम्परा अप्रामाणिकीत्यनवस्था दूषणमिति परिहरति ॥ न सिद्धेति ॥ कार्य-
मेवाज्ञानं कारणपरम्परां कल्पयिष्यतीति कथमप्रामाणिकत्वं ? इति शङ्कते ॥ अज्ञानं प्रतीतिसिद्धमिति ॥
परिहरति ॥ नेति ॥ आत्यन्तिक भेदाङ्गीकारेणैवाज्ञानप्रतीतिर्निर्वाह्या । अन्यथा अनन्तोपाध्यादिव्यक्तीनां कल्प्य
तथा गौरवं स्यादिति एवकारार्थः ॥ व्यवस्थितविकल्प इति ॥ उपाधिव्यक्तीनामज्ञानव्यक्तीनां च आन-
न्त्ये अनवस्था, । उपाघिव्यक्तेरज्ञानव्यक्तेश्च एकैकत्वे अन्योन्याश्रय इति पक्षभेदेन व्यवस्थित योर्दूषणयोर्विकल्पे
वाशब्दो वर्तते । अनवस्थाया अनन्तव्यक्तिसापेक्षत्वात् अन्योन्याश्रयस्य च व्यक्तिद्वयसापेक्षत्वात् एकस्मिन्नेव
युगपदुभयविवक्षानुपपत्तिरित्यत आह ॥ तन्त्रेणेति ॥ सकृदुच्चरित स्यानेकोपकारकत्वं तन्त्रत्वम् । 2 ॥ असिद्धेति ॥
 

 
1