This page has not been fully proofread.

३२०
 
उपाधिखण्डने
 
(मं. टि.) साभावेन स्फुरणपर्यवसायिनी वृत्तिर्नोदेतीति चेत् तर्हि प्राप्ताप्राप्तविवेकेन स्फुरणापर पर्याय स्वरूपज्ञानमेव
निवर्तकमिति कथं सर्वज्ञस्याज्ञानम् । अपि च वृत्तेरज्ञानोपादेयत्वात् उपादानोपादेययोश्च विरोधाभावात्
विरोधस्य च निवर्त्य निवर्तकभावप्रयोजकत्वात् न कुत्रापि वृत्तिरज्ञानविरोधिनी । एवं च 'त्वदुक्तमर्थं न
जानामि ' इत्यादौ स्वरूपज्ञानाङ्गीकारे तदपि पक्षतुल्यमिति कुतो व्यभिचार: ? इत्यलम् ।
 

 
"
 
॥ न च सम्बन्धेति ॥ सम्बन्धाभावपरत्वे व्याप्तत्वव्याघातः । युगपत्सर्वसम्बन्धित्वस्य व्याप्त
त्वात् । न च महत्परिमाणाश्रयत्वं व्याप्तत्वम् । त्वया ब्रह्मणि परिमाणानङ्गीकारात् न च
देशपरिच्छेदाभावो व्याप्तत्वम् असत्यतिव्याप्तेः । न ह्यसत्
1
अत्रैव ' इति देशविशेषेणावच्छिद्यते ।
न च सत्त्वे सतीति विशेषणीयम् । ब्रह्मण्यपि स्वरूपांतिरिक्तसत्त्वानभ्युपगमात् । तत्तद्वस्तुसम्बन्धा-
भावे तस्यैवासम्भवाच्च । सर्वत्र विद्यमानत्वं व्याप्तत्वमिति चेन्न । सर्वत्र विद्यमानत्वे तत्सम्बन्धस्या -
वर्जनीयत्वादिति भावः । युक्तघन्तरमध्याह ॥ यथेति ॥ ताच्छीलिकतन्प्रत्ययेनेति ॥ 'आके
स्तच्छीलतद्धर्मतत्साधुकारिषु' इत्यधिकृत्य 'तृन्' इत्यनेन सूत्रेण विहितो यस्तृनूप्रत्ययः तेने-
त्यर्थः । यद्यपि 'विद्यतिर्विनद्' इत्यनिट्कारिकायां इयना नमा च निर्देशात् विद सत्तायां विद
विचारणे इत्यानित्वोक्त्या विद ज्ञान इत्यस्य सेट्त्वज्ञापनात् 'वेदिता विद्यानां' इति प्रयोगाच्च ज्ञानार्थविव-
क्षायां अखिलसंवेदितुः इति वक्तव्यम् । तथापि विद विचारण इत्यस्य अनित्वेन परिगणनात् अनिकारिकायां
'विन्नवितो विचारित ' इति विचारणार्थस्यानित्वेन प्रयोगाच्च विचारणार्थेन विदधांतुना विचारसाध्यविशेषज्ञानस्य
लक्षयितुं शक्यत्वात् अखिलसंवेत्तुः इति प्रयोगः साधुरिति द्रष्टव्यम् ।
 
जीवब्रह्मणो रुपाधिनिमित्तभेदशङ्का
 
(टी.) शङ्कते
 
उपाधिभेदाटत इति चेत् ....
 
उपाधिनिमित्तो भेद उपाधिभेदः । घटते अज्ञतेति सम्बन्धः । यदुक्तं 'ब्रह्मणोऽखिलसंवेर-
ज्ञता न घटत, इति तन्न । अज्ञानस्य जीवाश्रयत्वाभ्युपगमात् । ननु जीवो ब्रह्मणो न भिद्यत इति
ते मतं । सत्यं, तथाप्युपाधिनिमित्तो भेदोऽस्त्येव । तत्र यथा सत्यपि बिम्बप्रतिबिम्बयोरैक्ये दर्प -
णाधुपाधिनिमित्तभेदात् बिम्बस्यावदातत्वेऽपि प्रतिविम्वस्य श्यामता घटते एवं जीवब्रह्मणोः सत्यप्य-
भेदे ब्रह्मणः सर्वज्ञत्वेऽपि जीवस्याज्ञता घटत एव उपाधिभेदादिति ।
 

 
16
 
1 ' न त्यसत्' इतीदं वाक्यं 'तत्तद्वस्तुसम्बन्धाभावे' इत्येतद्वाक्यानन्तरं मुद्रितपुस्तके दृश्यते । तदनन्वितम् । अतोऽय-
मेव पाठः साधुरिति भाति.
2 इत्यनयोष त्वोर
नित्वोक्त्या.