This page has not been fully proofread.

सर्वज्ञत्वस्याज्ञानाक्षेपकत्वशङ्कापरिहारौ
 
३१९
 
(टी.) ननु सर्वं हि यो जानाति स सर्वज्ञः । तिस्रावास्य विधाः सम्भवन्ति । प्रमाणतो वा सर्व
जानीयात् भ्रान्त्या वा स्वभावसिद्धया प्रज्ञया वा । न चैता विधा विना अज्ञानेनोपपद्यन्ते । कूटस्थस्य
अज्ञानादृते प्रमातृत्वायोगात् । भ्रान्तेश्च अज्ञानकार्यत्वात् । स्वरूपप्रज्ञायाश्च नान्तरेणाज्ञान मशेषार्थ-
सङ्गतिः । असङ्गत्वात् 'असङ्गो ह्ययं पुरुषः' इति श्रुतेः । अतः सर्वज्ञताप्यज्ञानवत्तामाक्षिपत्येव
परमात्मनो, न प्रतिक्षिपतीति । मैवम् मा भूत् प्रमाणेन मा च भूत् भ्रान्त्या, स्वरूपज्ञानेनैव परमात्मनः
सर्वज्ञताङ्गीकारात् । असङ्गत्वं तु तत्कृतफलले पाभावमात्रम् । न च सम्बन्धविरह एव । ' यथाऽऽका-
शस्थितो नित्यं वायुः' इत्यादितथा विधदृष्टान्तोपादानात् । तदिदमुक्तम् 'अखिलसंवेतुः' इति । अत्र सम्
इत्युपसर्गेण भ्रान्त्या सर्वज्ञतां वारयति, ताच्छीलकतन्प्रत्ययेन प्रमाणजन्यताम् इति स्वभावज्ञाने-
नैवोक्ता भवति ।
 
"
 
(मं. टि./ शङ्कते ॥ नन्विति ॥ विमतः कदाऽपि किञ्चिद्विषयक ज्ञानवान्न भवति सदा सर्वज्ञत्वात् यो यदा
यत्र ज्ञानवान् नासौ तदा तत्राज्ञानवान् यथोभयसम्मतः । विमता विषया वा कदापि न तदज्ञानविषयाः सदा
तज्ज्ञानविषयत्वात् यो यदा यज्ज्ञानविषयः नासौ तदा तदज्ञानविषयः यथोभयसंमत इत्यभिप्रेत्य सिद्धान्तयति
॥ मैवमिति ॥
 

 
शकते ॥ नन्विति ॥ प्रमाणत इति ॥ अन्तःकरणवृत्त्येत्यर्थः ॥ भ्रान्त्या वेति ॥ ननु कथमेतत् ?
भ्रान्तिर्हि विशेषाज्ञाननिचन्धना । विशेषाज्ञानं च सर्वज्ञस्य न सम्भवतीति चेन्न । विशेषज्ञानस्यापि भ्रान्ति-
रूपस्य स्थाणौ करचरणादिभ्रान्तेरिव भ्रान्त्यत्वात् । आद्ये अज्ञानावश्यम्भाव इत्याह ॥ कूटस्थस्येति ॥
कूटवत्तिष्ठतीति कूटस्थ: निर्विकारः तस्येत्यर्थः । प्रमातृत्वं हि प्रमाश्रयत्वं । आश्रयाश्रयिभावश्च निर्विकारे न
सम्भवतीति भावः । द्वितीयेऽप्यज्ञानमावश्यक मित्याह ॥ भ्रान्तेश्चेति ॥ तृतीयेऽप्यज्ञानं स्वीकर्तव्यमित्याह
॥ स्वरूपेति ॥ इति श्रुतेरिति ॥ सङ्गाभावः श्रुत्यर्थ इति मन्यते । परिहरति ॥ मैवमिति ॥ स्वरूपज्ञाने-
नेति ॥ ननु कथमेतत् ? स्वरूपज्ञानस्य अज्ञानस्फोरकत्वेन तद्विरोधित्वाभावात् । ततश्च 'यो यत्र ज्ञानवान्
नासौ तत्राज्ञानवान्' इति व्याप्तौ वृत्त्यतिरिक्तस्य स्वरूपज्ञानस्यापि विवक्षायां व्यभिचारः । 'त्वदुक्तमर्थं न
जानामि ' इत्यत्र ज्ञायमान एव साक्षिणा त्वदुक्तेऽर्थे अज्ञानस्यास्माभिरङ्गीकारात् । वृत्तिमात्रविवक्षायां तु
असिद्धिः । स्वरूपज्ञानेनैव सर्वज्ञत्वाङ्गीकारेण वृत्तेरभावादिति चेत् । मैवं । वृत्तिमात्रस्य विरोधित्वे परोक्ष-
'वृत्तेरप्यज्ञान निवर्तकत्वप्रसङ्गात् । तच्च त्वया 'परोक्षवृत्त्याप्यज्ञाननिवृत्तौ अभिव्यक्तापरोक्षैकर सचैतन्यसं भेदेन
अतीतादेरपरोक्षत्रसङ्गः' इति बाधकं पश्यता नाङ्गीक्रियते । अपरोक्षवृत्तिर्विरोधिनीति चेन्न । तथा सति
श्रवणमात्रेणापरोक्षज्ञानं बदतस्तव श्रवणजन्यज्ञानेनैव अज्ञाननिवृत्तौ मनना दिवैयर्थ्यापातात् । ननु स्फुरणपर्यवसा-
यिनी वृत्तिरज्ञानविरोधिनी । श्रवणमात्रेण च मनननिदिध्यासनसम्पाद्यासम्भावना विपरीतभावनाप्रतिबन्धनिरा-
-