This page has not been fully proofread.

३१८
 
उपाधिखण्डने
 
(मं. टि.) नन्वथापि परमात्मातिरिक्त एवाश्रयोऽस्त्वित्यत आह ॥ न चेति ॥ परमात्मातिरिक्तं 'अज्ञानाधिकरण
पारमार्थिकं ? किं वा अपारमार्थिकं ? आद्यं दूषयति ॥ 'वस्तु न विद्यत इति ॥ द्वितीये तस्याज्ञानकल्पितत्वाद-
न्योन्याश्रयः स्यादिति भावः । फलितं दर्शयति ॥ इतीति ॥ 3 सर्वज्ञस्यापि दोषबलादज्ञानं किं न स्यात् ?
इत्यत आह ॥ कुतश्चनेति ॥ दोषस्याप्यविद्यां विना असम्भवादिति भावः । अथ वा कुतश्चनेति प्रतीकमुपा-
दाय कुत्र चेति तद्वयाख्या । एवं च विषयासम्भवप्रतिपादनमपि कारिकारूढं भवति । ततश्च विषयासम्भवेना-
ज्ञानासम्भवमुपपादयितुं अज्ञानं हि कचिद्भवति' इत्यज्ञानस्य सविषयत्वसमर्थनं टीकाकारीयं सङ्गच्छते ।
उक्तार्थे हेतुमाह ॥ सर्वज्ञत्वादिति ॥ समानाश्रयसमान विषषकज्ञानाज्ञानयोर्विरोधात् ईश्वरज्ञानस्य च सर्वविष -
यकत्वात् न तस्य किञ्चिद्विषयकमज्ञानं सम्भवतीत्यर्थः । उपसंहरति । अत इति ॥
 
4
 
8
 
ननु कथमत्र प्रयोग : ? अज्ञानं नास्ति आश्रयसापेक्षत्वे सति तद्रहितत्वात्, विषयसापेक्षत्वे सति तद्रहित -
त्वाद्वा, साश्रयनिराश्रयान्यतरानन्तर्भावाद्वा, सविषयनिर्विषयान्यतरानन्तर्भावाद्व। इत्यादिषु आश्रयासिद्धेः । अथैवं
प्रयोगः, प्रमेयत्वं साश्रयनिराश्रयान्यतरमात्र निष्ठं सविषयनिर्विषयान्यतरमात्रनिष्ठं वा धर्मत्वात् 'घटवदिति । अनेन
चानुमानद्वयेन साश्रयनिराश्रयस विषयनिर्विषयानन्तर्भाविनोऽज्ञानस्य असत्वमापाद्यत इति चेत् अत्र वक्तव्यम्, किं
मात्रपदव्यावर्त्यमिति । 'उभयव्यतिरिक्तमिति चेत् तल्कि प्रमितं ? उत न? नाद्यः । प्रमितत्वादेव तत्र
?
प्रमेयत्वसम्भवेन मात्रशब्देन पुनस्तद्वयावर्तने व्याघातात् । न द्वितीयः । अप्रमितव्यावृत्यर्थं पदप्रयोगानुपपत्तेः ।
तस्मात् ' व्याप्यस्याज्ञानस्याप्यभावः' इति कथमुक्तं ? इति चेत् इत्थमभिप्रेत्योक्तम् । जगदुपादानं नाज्ञान
निराश्रयत्वात् निर्विषयत्वादित्यन्वयव्यतिरे किद्वयेन उभयवादिसिद्धस्य जगदुपादानस्याज्ञानत्वनिषेधात् न
त्वदभिमताज्ञानसिद्धिः । नियमेन आश्रयविषयज्ञप्तिसापेक्षप्रतीत्यविषयत्वस्य हेतुत्वान्न कश्चिद्दोषः । यद्वा
पररीत्या प्रसक्तं मात्रपदेन व्यावर्त्यत इति पूर्वप्रयोग एवास्त्विति ।
 
सर्वज्ञत्वाज्ञानाभावयोर्व्याप्तिसमर्थनम्
 
(टी.) ननु सर्वज्ञस्याज्ञता न घटत इत्यत्र नान्वयदृष्टान्तः । परमात्मना विना अन्यस्य सर्वज्ञस्या -
भावात् । नापि व्यतिरेकदृष्टान्तः । अज्ञानाश्रयस्यान्यस्य परेणानभ्युपगमात् । तत् कथमेतत् 2
इति । मैवं । 'यो यत्र ज्ञानवान् नासौ तत्राज्ञानवान्' इति सामान्यव्याप्तेरविरोधात् ।
 
6
 
9
 
1 किं पारमार्थिकमज्ञानाधिकरणं ? कि वा अपारमार्थिकम् ?
 
2
 
॥ न वस्तु विद्यत इति ॥ द्वितीयस्याज्ञानकल्पितत्वात् आत्माश्रय: स्यादिति भावः
 
3 सर्वज्ञस्यापि विशेषबलादज्ञानं किं न स्यादित्यत आह ॥ कुतश्चनेति ॥ विशेषस्याप्यविद्यां विना असम्भवादिति
4 कुत्रेति. 5 घटवदित्यु मानद्वयेन.
 
भावः इति मुद्रितः पाठः । मायिमते विशेषानङ्गीकारेण अयं पाठो नैव साधुः ।
 
सिद्धत्वाभावात्.
 
6 असत्वमापद्यत इति चेत् अत्र वक्तव्यम्. 7 अतिरिक्तमिति चेत्. 8 प्रमेयत्वसद्भावेन मात्रशब्देन पुनः तव्यावर्तने व्याघातः
जगदुपादानस्याज्ञानस्य निषेधात् इति पाठान्तरम् । अयं पाठोऽसाधुरेव । अज्ञानस्य जगदुपादानताया उभयवादि
 
9