This page has not been fully proofread.

जीवब्रह्मैक्यस्य शास्त्रार्थत्वेन गुणपूर्णत्वाक्षेपः
 
३१७
 
(टी.) अत्राहुरद्वैतवादिनः, जीवब्रह्मणोरेकत्वं खलु सकल वेदान्ततन्मीमांसाशास्त्रप्रतिपाद्यम् । न
च तत् नारायणाख्यस्य परब्रह्मणः सदा अगण्यगुणाश्रयत्वे सम्भवति । अताग्रूपत्वात् जीवस्य । न हि
परस्परविरुद्वस्वभावयो रेकत्वं दृष्टम् । अतो न स्वभावतोऽगण्यगुणाधिकरणत्वं नारायणस्येति ।
 
(म. टि.) वेदान्तादिविषयादितत्वनिर्णयाय प्रकरणं चेत् किमनेन अकाण्डताण्डवायितेन अज्ञाननिरा-
करणेन ? इत्याशङ्कय तत् सङ्घटयितुं शङ्कते ॥ अत्राहुरित्यादिना ॥ नारायणः किं परब्रह्म ? उत न ? न चेद-
पसिद्धान्तः । ब्रह्म चेत् सोऽप्यल्पगुणः स्यात् । जीवो वा अनन्तगुण: स्यात् । विरुद्धधर्माश्रययोरभेदायोगात् ।
अभेदस्य च प्रामाणिकत्वादिति चोद्यार्थः । ननु त्वन्मते जीवब्रह्मणोः स्वाभाविकामेदेऽपि सर्वज्ञत्वाल्पज्ञत्वा-
दिवत् ममापि अनन्तगुणवत्वतदभावव्यवस्था किं न स्यात् ? इत्यत आह ॥ स्वभावत इति ॥ मम तु
सार्वज्या दिकमौपाधि कमित्यर्थः ।
 
अज्ञानानुपपत्त्या ऐक्यस्य शास्त्रार्थत्वनिरास:
 
(टी.) तदयुक्तम्, स्यादिदं यदि जीवब्रह्मणोरेकत्वं शास्त्रार्थः स्यात् । न चैवं सम्भवति । तथात्वे
शास्त्रस्य अनारम्भणीयत्वप्रसङ्गात् । यत् खलु अधिकारिविषयप्रयोजनसम्बन्धवत् तत् आरम्भणीयं
दृष्टम् । न च एतत् अद्वैतवादे सम्भवति अधिकार्यादिसिद्धेरज्ञानसिद्धयधीनत्वात् । न च तत्पक्षे
अज्ञानमुपपद्यते । कथम् ? इति तंत्राह
 
अज्ञताऽखिलसंवेत्तुर्घटते न कुतश्चन ।
 
अज्ञानं हि कस्यचित् क्वचित् सम्भवति । न च तत्पक्षे परमात्मातिरिक्तं वस्तु विद्यत इति
तस्यैव ज्ञानं वक्तव्यम् । न च तस्य कुतश्चन 'कुत्रापि तत् सम्भवति सर्वज्ञत्वात् । अतो व्यापकी-
भूताश्रयविषयानुपपच्या व्याप्यस्याज्ञानस्याप्यनुपपत्तिः ।
 
(मं. टि.) अभेदस्य प्रामाणिकत्वमेवासिद्धमिति परिहरति ॥ तदयुक्तमिति ॥ यत्खल्वधि-
कारीति ॥ अधिकारिस्वरूपमा त्रज्ञानस्य अधिकारिप्रवृत्तिहेतुत्वाभावेऽपि अधिकारिविशेषणापरिज्ञाने ' अह-
मधिकार्यस्मिन्न वा ' इति सन्देहेन प्रवृत्तिप्रतिबन्धात् अधिकारि विशेषणज्ञानमपि प्रवृत्त्यङ्गमिति
भावः ॥ अधिकार्यादीति ॥ अज्ञानिनोऽधिकारित्वात् अज्ञातस्य विषयत्वात् अज्ञाननिवृत्तेश्च प्रयो-
जनत्वादिति भावः । सर्वज्ञस्याज्ञानं न घटते चेत् 'निराश्रयमज्ञानमस्तु' इत्याशङ्कय साश्रयत्व-
नियममाह ॥ अज्ञानं हि कस्यचिदिति ॥ सविषयत्वं चाङ्गीकरणीयमित्याह ॥ क्वचिदिति ॥
'अस्य अत्र अज्ञानं ' इत्यनुभवादज्ञानस्य विषय सापेक्षत्वं " आश्रयसापेक्षत्वं अङ्गीकर्तव्यमिति हिशब्दार्थ: ।
 
2
 
2 आश्रयसापेक्षत्वमिति आत्मसापेक्षत्वं च.
 
[]
 
कुत्र च तत् सम्भवति.