This page has been fully proofread once and needs a second look.

<page>
<ignore>
66
 
</ignore>
<ignore>
नारायणपूर्वतापिनीयोपनिषत्
 
</ignore>
<ignore>
७९
 
</ignore>
<ignore>
1
 
"
</ignore>
<p><quote>&quot;
चत्वारि वाक्परिमिता पदानि । तानि विदुर्ब्राह्मणा ये मनीषिणः ।

गुहा त्रीणि निहिता नेङ्गयन्ति । तुरीयं वाचो मनुष्या वदन्ति । "
&quot;</quote>
परापश्यन्तीमध्यमा वैखरीरूपा सरस्वतीति चतुर्विधा वाचो वदन्ति । वैखरी

सर्वविद्यासु प्रशस्ता ॥
 
</p>
<verse>
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
 

पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥
 
</verse>
<verse>
आयुर्वेदो धनुर्वेदो गान्धर्वैवं मन्त्रशास्त्रकम् ।
 

विद्याश्वाष्टादश प्रोक्ता नारायणनिवेशिताः ॥
 
</verse>
<p>
तस्य निश्वसितमेव ऋग्वेदो यजुर्वेदः सामवेदो ह्यथर्वाङ्गिरश्चेति ।

सर्ववेदवेदान्तानां नारायणपरब्रह्मण्येव तात्पर्यम् । स होवाच भगवान् य

एवं वेद । इत्युपनिषत् ॥
 
</p>
<trailer>
इत्याथर्वणरहस्ये नारायणपूर्वतापिनीये पञ्चमः खण्डः
 
</trailer>
<metadata>div.n = 6</metadata>
<heading>
षष्ठः खण्डः
 
</heading>
<p>
स होवाच भगवान् ब्रह्मा नारायणयन्त्रमन्त्रावरणपूजामाचचक्षे ।

त्रिकोणं प्रथमं भवति । द्वितीयं षट्कोणं भवति । वृत्तमष्टदलं तृतीयम् ।

चतुर्थं द्वादशदलम् । पञ्चमं षोडशदलम् । चतुर्विंशति [ : ]<add>तिः</add> षष्ठम् । द्वात्रिंशति [ <add>तिः</add>
<note>editor added just &apos;
: ]
&apos; (visargas) here, but very hard to type</note>
सप्तमम् । अष्टमं भूपुरम् । एवं यन्त्रं समालिखेत् । मध्ये लक्ष्मीनारायणं

विक्षेपशक्त्यावरणं शक्तिप्रभाशक्तित्रिकोणदेवताः पट्कोणं वृद्धोल्कादयः

पूज्याः । सर्वज्ञानित्वतृप्त्यनादिबोधस्वतन्त्रनित्य मलुप्तानन्तं षट्कोणशक्तयः ।

सनकसनन्दनसनत्सुजातसनत्कुमारसनातननारदतुम्बुरु समन्तादयोऽष्टदलाः ।
 
</p>
</page>