2026-02-08 07:39:57 by ambuda-bot
This page has not been fully proofread.
66
नारायणपूर्वतापिनीयोपनिषत्
७९
1
" चत्वारि वाक्परिमिता पदानि । तानि विदुर्ब्राह्मणा ये मनीषिणः ।
गुहा त्रीणि निहिता नेङ्गयन्ति । तुरीयं वाचो मनुष्या वदन्ति । "
परापश्यन्तीमध्यमा वैखरीरूपा सरस्वतीति चतुर्विधा वाचो वदन्ति । वैखरी
सर्वविद्यासु प्रशस्ता ॥
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥
आयुर्वेदो धनुर्वेदो गान्धर्वै मन्त्रशास्त्रकम् ।
विद्याश्वाष्टादश प्रोक्ता नारायणनिवेशिताः ॥
तस्य निश्वसितमेव ऋग्वेदो यजुर्वेदः सामवेदो ह्यथर्वाङ्गिरश्चेति ।
सर्ववेदवेदान्तानां नारायणपरब्रह्मण्येव तात्पर्यम् । स होवाच भगवान् य
एवं वेद । इत्युपनिषत् ॥
इत्याथर्वणरहस्ये नारायणपूर्वतापिनीये पञ्चमः खण्डः
षष्ठः खण्डः
स होवाच भगवान् ब्रह्मा नारायणयन्त्रमन्त्रावरणपूजामाचचक्षे ।
त्रिकोणं प्रथमं भवति । द्वितीयं षट्कोणं भवति । वृत्तमष्टदलं तृतीयम् ।
चतुर्थ द्वादशदलम् । पञ्चमं षोडशदलम् । चतुर्विंशति [ : ] षष्ठम् । द्वात्रिंशति [ : ]
सप्तमम् । अष्टमं भूपुरम् । एवं यन्त्रं समालिखेत् । मध्ये लक्ष्मीनारायणं
विक्षेपशक्त्यावरणं शक्तिप्रभाशक्तित्रिकोणदेवताः पट्कोणं वृद्धोल्कादयः
पूज्याः । सर्वज्ञानित्वतृत्यनादिबोधस्वतन्त्रनित्य मलुप्तानन्तं षट्कोणशक्तयः ।
सनकसनन्दनसनत्सुजातसनत्कुमारसनातननारदतुम्बुरु समन्तादयोऽष्टदलाः ।