This page has been fully proofread once and needs a second look.

<page>
<ignore>
७८
 
</ignore>
<ignore>
वैष्णव- उपनिषदः
 
</ignore>
<p>
सौः वामनावताराय नमः । मेंऐं परशुरामावताराय नमः । ग्लौं रामचन्द्राय

नमः । क्लीं कृष्णाय नमः । ब्लूं बुद्धावताराय नमः । सः कल्क्यवताराय

नमः इति । प्रजापतिः प्रजायते । तस्मान्नारायणः प्रजायते । ब्रह्मा

जायते । ब्रह्मणः सकाशात् पञ्चमहाभूतानि तन्मात्राणि जायन्ते । ज्ञानेन्द्रिय-

कर्मेन्द्रियाणि मनोबुद्धिचित्ताहंकारा जायन्ते । प्रकृतिर्जायते । चतुर्विंशति-

तत्त्वात्मको नारायणः । पञ्चविंशतितत्त्वात्मकः पुरुषत्वं परब्रह्म भवेत् ।

शिवश्च नारायणः । शक्रश्च नारायणः । दिशश्च नारायण:णः । ऊर्ध्वञ्च

नारायण: । अन्तश्च नारायण:णः । नारायणः सर्वं खल्विदं ब्रह्म ।

तस्मान्नारायणादण्डजस्वेदजोद्भिज्जजरायुजमनसिजादयः सर्वे
सर्वे
महाभूताः
 

प्रजायन्ते ॥
 

 
</p>
<verse>
अजामेकां लोहितशुक्लकृष्णां बह्रींवीं प्रजां जनयन्ती‍ सरूपाम् ।

अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥
</verse>
<p>
अण्डजाः सर्वखगरूपा जायन्ते । स्वेदजाः क्रिमिकीटादयः ।

उद्भिज्जास्तरुगुल्मलतादयः । जरायुजा नरपशुमृगादयो जायन्ते । मनसिजा

नारदादयः सर्वे ऋषयः । नारायणः स्थावरजङ्गमात्मको भवति ।

अष्टवसवो नारायणः । एकादशरुद्रा नारायण:णः । नारायणात् द्वादशादित्याः ।

सर्वे देवा ऋषयो मुनयः सिद्धगन्धर्वयक्षरक्षः पिशाचाः सर्वे नारायणः ।

नारायण एवेदं सर्वम् । लक्ष्मीर्मूलप्रकृतिरिति विज्ञायते । वस्त्वेकं परब्रह्म
 

नारायणः सनातनः ॥
 
</p>
<verse>
साक्षान्नारायणो देव: परब्रह्माभिधीयते ।
 

सच्चिदानन्दात्मकाः स्युर्विष्णौ नित्ये प्रकल्पिताः ।

नानाविधानि रूपाणि हाटके कंटकादिवत् ॥
 
</verse>
</page>