This page has not been fully proofread.

७८
 
वैष्णव- उपनिषदः
 
सौः वामनावताराय नमः । में परशुरामावताराय नमः । ग्लौं रामचन्द्राय
नमः । क्लीं कृष्णाय नमः । ब्लूं बुद्धावताराय नमः । सः कल्क्यवताराय
नमः इति । प्रजापतिः प्रजायते । तस्मान्नारायणः प्रजायते । ब्रह्मा
जायते । ब्रह्मणः सकाशात् पञ्चमहाभूतानि तन्मात्राणि जायन्ते । ज्ञानेन्द्रिय-
कर्मेन्द्रियाणि मनोबुद्धिचित्ताहंकारा जायन्ते । प्रकृतिर्जायते । चतुर्विंशति-
तत्त्वात्मको नारायणः । पञ्चविंशतितत्त्वात्मकः पुरुषत्वं परब्रह्म भवेत् ।
शिवश्च नारायणः । शक्रश्च नारायणः । दिशश्च नारायण: । ऊर्ध्वञ्च
नारायण: । अन्तश्च नारायण: । नारायणः सर्वं खल्विदं ब्रह्म ।
तस्मान्नारायणादण्डजस्वेदजोद्भिज्जजरायुजमनसिजादयः सर्वे
सर्वे महाभूताः
 
प्रजायन्ते ॥
 

 
अजामेकां लोहितशुक्लकृष्णां बह्रीं प्रजां जनयन्ती‍ सरूपाम् ।
अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥
अण्डजाः सर्वखगरूपा जायन्ते । स्वेदजाः क्रिमिकीटादयः ।
उद्भिज्जास्तरुगुल्मलतादयः । जरायुजा नरपशुमृगादयो जायन्ते । मनसिजा
नारदादयः सर्वे ऋषयः । नारायणः स्थावरजङ्गमात्मको भवति ।
अष्टवसवो नारायणः । एकादशरुद्रा नारायण: । नारायणात् द्वादशादित्याः ।
सर्वे देवा ऋषयो मुनयः सिद्धगन्धर्वयक्षरक्षः पिशाचाः सर्वे नारायणः ।
नारायण एवेदं सर्वम् । लक्ष्मीर्मूलप्रकृतिरिति विज्ञायते । वस्त्वेकं परब्रह्म
 
नारायणः सनातनः ॥
 
साक्षान्नारायणो देव: परब्रह्माभिधीयते ।
 
सच्चिदानन्दात्मकाः स्युर्विष्णौ नित्ये प्रकल्पिताः ।
नानाविधानि रूपाणि हाटके कंटकादिवत् ॥