This page has not been fully proofread.

नारायणपूर्वतापिनीयोपनिषत्
 
शङ्खचक्रगदाखङ्गधारिणं वनमालिनम् ।
 
वामभागे महालक्ष्म्यालिङ्गितार्धशरीरिणम् ॥
सनकादिभिः संसेव्यं स्तूयमानं महर्षिभिः ।
 
ब्रह्मादिभिः सदा ध्येयं ध्यात्वा नारायणं विभुम् ॥
कर्मणा मनसा वाचा संस्मरत् प्रजपेत् सुधीः ।
अयुतं जपमात्रेण सर्वज्ञानप्रदो भवेत् ॥
 
लक्षमात्रं तु प्रजपेत् स्वस्वरूपं भवेन्मनुः ।
अत ऊर्ध्वं सदा ध्यायेत् साक्षान्नारायणो हरिः ॥
स होवाच भगवान् य एवं वेद । इत्युपनिषत् ॥
इत्याथर्वणरहस्ये नारायणपूर्वतापिनीये चतुर्थ: खण्ड:
 
७७
 
पश्चम: खण्ड:
 
स होवाच भगवान् ब्रह्मा दशकळात्मकोऽवतारः कथ्यते ॥
 
जर । पालिनिका शान्तिरीश्वरी रतिकामिका ।
 
वरदा ह्लादिनी प्रीतिर्दीर्घा दशकला हरेः ॥
 
नारायणादवतारा मन्त्ररूपा जायन्ते । ॐ नमो नारायणाय
स्वाहा । एवं दशाक्षरो महामन्त्रो भवति । तत्र प्रथमो मत्स्यावतार: ।
द्वितीयः कूर्मः । तृतीयो वराहः । चतुर्थो नरसिह्नः । पञ्चमो वामनः ।
षष्ठो जमदग्निः । सप्तमो रामचन्द्रः । अष्टमः कृष्णः परमात्मा । नवमो
बुद्धावतारः । दशमः कल्किर्जनार्दनः । ॐ मत्स्यावताराय नमः । श्रीं
कूर्मावताराय नमः । हीं वराहावताराय नमः । हुं नृसिंहावताराय नमः ।