This page has been fully proofread once and needs a second look.

<page>
<ignore>
७६
 

 
'
</ignore>
<ignore>&apos;
वैष्णव- उपनिषदः
 
</ignore>
<metadata>div.n = 4</metadata>
<heading>
चतुर्थः खण्डः
 
</heading>
<p>
स होवाच भगवान् पितामह: गायत्रीं व्याचष्टे । गोविन्दाय

विद्महे वासुदेवाय धीमहि । तन्नो नारायणः प्रचोदयात् । कामदेवाय विद्महे

पुष्पबाणाय धीमहि । तन्नोऽनङ्गः प्रचोदयात् । महादेव्यै च विद्महे

विष्णुपत्नी च धीमहि । तन्नो लक्ष्मीः प्रचोदयात । " <quote>&quot;विष्णोर्मुनुकं वीर्याणि

प्रवोचं यः पार्थिवानि विमने रजासि यो अस्कभायदुत्तर सधस्थं

विचक्रमाणस्त्रेधोरुगायः "&quot;</quote>, " <quote>&quot;त्रिर्देवः पृथिवीमेष एताम् । विचक्रमे शतर्चसं

महित्वा । प्रविष्णुरस्तु तवसस्तवीयान् । त्वेष ह्यस्य स्थविरस्य नाम । "
&quot;</quote></p>
<verse>
सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमकृत ।
 
66
 
66
 

अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर्निहिताधिवाचि ॥
</verse>
<p>&quot;
प्रतद्विष्णुस्तवने वीर्याय । मृगो न भीमः कुचरो गिरिष्ठाः ।

यस्योरुषु त्रिषु विक्रमणेषु । अधिक्षियन्ति भुवनानि विश्वा । "&quot;, " &quot;य ई

शृणोत्यलकःकꣳ शृणोति । न हि प्रवेद सुकृतस्य पन्थाम् ।&quot; अक्षन्वन्तः

कर्णवन्तः सखायो मनो जीवेप्ष्वसमा बभूवुः । तस्माल्लक्ष्मीनारायणं सर्वबीजं

सर्वभूताधिवासं यो वेत्ति स विद्वान् भवति । उपासकानां मोक्षप्राप्तिर्भवति ।

स जीवन्मुक्तो भवति । स होवाच भगवान् उपासनविधिं व्याचष्टे । ब्रह्मा

ऋषिर्भवति । गायत्री छन्द उच्यते । श्रीमन्नारायणपरमात्मा देवता । प्रणवं

बीजम् । नमः शक्तिरुच्यते । कीलकं नारायणेति ॥
 
</p>
<verse>
धर्मार्थकाममोक्षेषु विनियोगोऽथ भावना ।
 
</verse>
<p>
महोल्काय वीरोल्काय वृद्धोल्काय पृथूलकाय विद्युल्काय ज्वलदुल्काय

च षडङ्गकल्पिताः नमःस्वाहावषड्वौषट्पदान्ता अङ्गन्यासा भवन्ति ।
</p>
<verse>
नीलजीमूतसंकाशं पीतकौशेयवाससम् ।
 

किरीटकुण्डलधरं कौस्तुभोद्भासितोरंसम् ॥
 
</verse>
</page>