This page has not been fully proofread.

७६
 

 
'वैष्णव- उपनिषदः
 
चतुर्थः खण्डः
 
स होवाच भगवान् पितामह: गायत्रीं व्याचष्टे । गोविन्दाय
विद्महे वासुदेवाय धीमहि । तन्नो नारायणः प्रचोदयात् । कामदेवाय विद्महे
पुष्पबाणाय धीमहि । तन्नोऽनङ्गः प्रचोदयात् । महादेव्यै च विद्महे
विष्णुपत्नी च धीमहि । तन्नो लक्ष्मीः प्रचोदयात । " विष्णोर्मुकं वीर्याणि
प्रवोचं यः पार्थिवानि विमने रजासि यो अस्कभायदुत्तर५ सधस्थं
विचक्रमाणस्त्रेधोरुगायः ", " त्रिर्देवः पृथिवीमेष एताम् । विचक्रमे शतर्चसं
महित्वा । प्रविष्णुरस्तु तवसस्तवीयान् । त्वेष५ ह्यस्य स्थविरस्य नाम । "
सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमकृत ।
 
66
 
66
 
अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर्निहिताधिवाचि ॥
प्रतद्विष्णुस्तवने वीर्याय । मृगो न भीमः कुचरो गिरिष्ठाः ।
यस्योरुषु त्रिषु विक्रमणेषु । अधिक्षियन्ति भुवनानि विश्वा । ", " य ई
शृणोत्यलकः शृणोति । न हि प्रवेद सुकृतस्य पन्थाम् । अक्षन्वन्तः
कर्णवन्तः सखायो मनो जीवेप्वसमा बभूवुः । तस्मालक्ष्मीनारायणं सर्वबीजं
सर्वभूताधिवासं यो वेत्ति स विद्वान् भवति । उपासकानां मोक्षप्राप्तिर्भवति ।
स जीवन्मुक्तो भवति । स होवाच भगवान् उपासनविधिं व्याचष्टे । ब्रह्मा
ऋषिर्भवति । गायत्री छन्द उच्यते । श्रीमन्नारायणपरमात्मा देवता । प्रणवं
बीजम् । नमः शक्तिरुच्यते । कीलकं नारायणेति ॥
 
धर्मार्थकाममोक्षेषु विनियोगोऽथ भावना ।
 
महोल्काय वीरोल्काय वृद्धोल्काय पृथूलकाय विद्युल्काय ज्वलदुल्काय
च षडङ्गकल्पिताः नमःस्वाहावषड्वौषट्पदान्ता अङ्गन्यासा भवन्ति ।
नीलजीमूतसंकाशं पीतकौशेयवाससम् ।
 
किरीटकुण्डलधरं कौस्तुभोद्भासितोरंसम् ॥