2026-02-26 01:41:52 by akprasad
This page has been fully proofread once and needs a second look.
"
<ignore>"</ignore>
<ignore>"</ignore>
<ignore>66
<title>नारायणपूर्वतापिनीयोपनिषत्
<metadata>div.n = 3</metadata>
<p>तृतीयः खण्डः
<ignore>७५
<p>स होवाच भगवान् ब्रह्मा नारायणमन्त्रः कीदृशो भवति ।
नारायणाय विद्महे वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात्
गायत्री भवति । इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य
पाꣳसुरे।
सप्तधामभिः
शिवः स हरिः सेन्द्रः सोऽक्षरः परमः स्वराट्
भवति । ॐ नमो विष्णव इति षडक्षरं विज्ञातम् । नमो नारायणायेति
सप्ताक्षरं भवति । ॐ नमो भगवते वासुदेवायेति द्वादशं परिकीर्तितम् ।
ॐ श्रीं ह्रीं क्लीं नमो नारायणाय स्वाहा । यस्य कस्यापि न देयम् ।
<verse>पुत्रो देयः शिरो देयं न देया षोडशाक्षरी ।
स्वाहा ॥
न वदेद्यस्य कस्यापि किं तु शिष्याय तां वदेत् ॥
<p>ॐ श्रीं ह्रीं नमो भगवते लक्ष्मीनारायणाय विष्णवे वासुदेवाय
स्वाहा ॥</p>
<verse>श्रीमहाविष्णवे तुभ्यं नमो नारायणाय च ।
गोविन्दाय च रुद्राय हरये ब्रह्मरूपिणे ॥
<verse>नारायण महाविष्णो श्रीधरानन्त केशव ।
वासुदेव जगन्नाथ हृषीकेश नमो नमः ॥
<p>इत्यनुष्टु
स होवाच भगवान् ब्रह्मा य एवं वेद । इत्युपनिषत् ॥
<trailer>इत्याथर्वणरहस्ये नारायणपूर्वतापिनीये तृतीयः खण्डः
</page>