This page has not been fully proofread.

"
 
"
 
66
 
नारायणपूर्वतापिनीयोपनिषत्
 
तृतीयः खण्डः
 
७५
 
स होवाच भगवान् ब्रह्मा नारायणमन्त्रः कीदृशो भवति । " ॐ
नारायणाय विद्महे वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात् " इति
गायत्री भवति । इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य
पासुरे। " अतो देवा भवन्तु नो यतो विष्णुर्विचक्रमे । पृथिव्याः
सप्तधामभिः " इति मन्त्रद्वयेन नारायणप्रतिपादितं भवति । " स ब्रह्मा स
शिवः स हरिः सेन्द्रः सोऽक्षरः परमः स्वराट् " । नारायणायेति पञ्चाक्षरं
भवति । ॐ नमो विष्णव इति षडक्षरं विज्ञातम् । नमो नारायणायेति
सप्ताक्षरं भवति । ॐ नमो भगवते वासुदेवायेति द्वादशं परिकीर्तितम् ।
ॐ श्रीं ह्रीं क्लीं नमो नारायणाय स्वाहा । यस्य कस्यापि न देयम् ।
पुत्रो देयः शिरो देयं न देया षोडशाक्षरी ।
 
स्वाहा ॥
 
न वदेद्यस्य कस्यापि किं तु शिष्याय तां वदेत् ॥
 
ॐ श्रीं ह्रीं नमो भगवते लक्ष्मीनारायणाय विष्णवे वासुदेवाय
 
श्रीमहाविष्णवे तुभ्यं नमो नारायणाय च ।
 
गोविन्दाय च रुद्राय हरये ब्रह्मरूपिणे ॥
 
नारायण महाविष्णो श्रीधरानन्त केशव ।
 
वासुदेव जगन्नाथ हृषीकेश नमो नमः ॥
 
इत्यनुष्टुबुद्वयं मन्त्रं व्याख्यातम् । अथ मालामन्त्रं व्याख्यास्यामः ।
 
स होवाच भगवान् ब्रह्मा य एवं वेद । इत्युपनिषत् ॥
 
इत्याथर्वणरहस्ये नारायणपूर्वतापिनीये तृतीयः खण्डः