This page has not been fully proofread.

७४
 
वैष्णव- उपनिषदः
द्वितीयः खण्डः
 
स होवाच भगवान् ब्रह्मा नारायणाष्टाक्षरमन्त्रं व्याचष्टे ।
श्रीमन्नारायणस्य दशमन्त्राः कथ्यन्ते । ॐ नमो नारायणाय इत्यष्टाक्षरो
मन्त्रः । स एव मन्त्रराजो भवति । एतन्नारायणस्य तारकं भवति ।
तदेवोपासितव्यं भवति । इत्युवाच भगवान्नारायणशब्दपरब्रह्मश्रीमहामाया-
प्रकृतिसर्वमेकजननीलक्ष्मीर्भवति । देवानां देवलक्ष्मीर्भवति । सिद्धानां
सिद्धलक्ष्मीर्भवति । मुमुक्षूणां मोक्षलक्ष्मीर्भवति । योगिनां योगलक्ष्मीर्भवति ।
मुनीनां विवेकबुद्धिर्भवति । राज्ञां राज्यलक्ष्मीर्भवति । सृष्टिरूपा सरस्वती
भवति । स्थितिरूपा महालक्ष्मीर्भवति । संहाररूपा रुद्राणी भवति ।
तिरोधानकरी पार्वती भवति । अनुग्रहरूपा उमा भवति । पञ्चकृत्यरूपा
परमेश्वरी भवति । श्रीमहालक्ष्म्यै नम इति सप्ताक्षरो मन्त्रः ॥
 
सर्वेषामेव भूतानां महासौभाग्यदायिनी ।
महालक्ष्मीर्महादेवी सर्वलोकैकमोहिनी ॥
साम्राज्यदायिनी नित्यं सर्ववेदस्वरूपिणी ।
महाविद्या जगन्माता मुनीनां मोक्षदायिनी ।
 
ज्ञानिनां ज्ञानदा सत्यं दानवानां विनाशिनी ॥
 
इति महालक्ष्मीर्मूलप्रकृतिर्भवति । नारायणः स भगवान् परब्रह्मस्व-
रूपी सर्ववेदान्तगोचरः नित्यशुद्धबुद्धपरब्रह्मानन्दमयो भवति । तस्माल्लक्ष्मी-
नारायण इति स होवाच भगवान् य एवं वेद । इत्युपनिषत् ॥
 
इत्याथर्वणरहस्ये नारायणपूर्वतापिनीये द्वितीयः खण्डः