This page has been fully proofread once and needs a second look.

<page>
<ignore>
नारायणपूर्वतापिनीयोपनिषत्
 
</ignore>
<ignore>७३</ignore>
<title>
नारायणपूर्वतापिनीयोपनिषत्
 
</title>
<metadata>div.n = 1</metadata>
<heading>
प्रथमः खण्डः
 
७३
 
</heading>
<p>
अथ ब्रह्माणं भगवन्तं सनत्कुमारः पप्रच्छ । कीदृशं नारायणाष्टाक्षरं

भवतीति व्याचष्टे । अथ यो वै नारायणः स भगवान् परब्रह्मण आनन्दो

भवति । ज्ञात्वा जीवन्मुक्तो भवति । सच्चिदानन्दस्वरूपपरवस्तु भवति ।

अष्टाक्षरं अष्टमूर्ति भवति । प्रथमरूपः पृथिवीरूपो भवति । द्वितीयमापो

भवति । तृतीयस्तेजो भवति । चतुर्थो वायुर्भवति । पञ्चम आकाशो

भवति । षष्ठश्चन्द्रमा भवति । सप्तमः सूर्यो भवति । अष्टमो यजमानः ॥
</p>
<verse>
भूमिरापस्तथा तेजो वायुर्व्योम च चन्द्रमाः ।
 

सूर्यः पुमांस्तथाचेति मृर्तयश्चाष्ट कीर्तिताः ॥
 
</verse>
<p>
अकारोकारमकारनादबिन्दु कलानुसन्धानध्यानाष्टविधा
 
अष्टाक्षरं
 

भवति । अकारः सद्योजातो भवति । उकारो वामदेव:वः । अघोरो मकारो

भवति । तत्पुरुषो नादः । बिन्दुरीशानः । कला व्यापको भवति ।

अनुसन्धानो नित्यः । ध्यानस्वरूपं ब्रह्म । सर्वव्यापकोऽष्टाक्षरः ॥
</p>
<verse>
नारायणः परं ब्रह्म ज्ञानं नारायणः परः ।

नारायणं महापुरुषं विश्वमात्मानमव्ययम् ॥
</verse>
<verse>
अन्तर्बहिश्च तत्सर्वेवं स्थितो नारायणः परः ।

सहस्रशीर्षं देवमक्षरं परमं पदम् ॥

<note>not valid shloka</note></verse>
<verse>
नारायणं शिवं शान्तं सर्ववेदान्तगोचरम् ।

सृष्टिः स्थितिश्च संहारतिरोधानानुसंमतम् ।

पञ्चकृत्यस्य कर्तारं नारायणमनामयम् ॥
 
</verse>
<trailer>
इत्याथर्वणरहस्ये नारायणपूर्वतापिनीये प्रथमः खण्डः
 
</trailer>
<ignore>
U 10
 
</ignore>
</page>