2026-02-08 07:39:56 by ambuda-bot
This page has not been fully proofread.
नारायणपूर्वतापिनीयोपनिषत्
नारायणपूर्वतापिनीयोपनिषत्
प्रथमः खण्डः
७३
अथ ब्रह्माणं भगवन्तं सनत्कुमारः पप्रच्छ । कीदृशं नारायणाष्टाक्षरं
भवतीति व्याचष्टे । अथ यो वै नारायणः स भगवान् परब्रह्मण आनन्दो
भवति । ज्ञात्वा जीवन्मुक्तो भवति । सच्चिदानन्दस्वरूपपरवस्तु भवति ।
अष्टाक्षरं अष्टमूर्ति भवति । प्रथमरूपः पृथिवीरूपो भवति । द्वितीयमापो
भवति । तृतीयस्तेजो भवति । चतुर्थो वायुर्भवति । पञ्चम आकाशो
भवति । षष्ठश्चन्द्रमा भवति । सप्तमः सूर्यो भवति । अष्टमो यजमानः ॥
भूमिरापस्तथा तेजो वायुर्व्योम च चन्द्रमाः ।
सूर्यः पुमांस्तथाचेति मृर्तयश्चाष्ट कीर्तिताः ॥
अकारोकारमकारनादबिन्दु कलानुसन्धानध्यानाष्टविधा
अष्टाक्षरं
भवति । अकारः सद्योजातो भवति । उकारो वामदेव: । अघोरो मकारो
भवति । तत्पुरुषो नादः । बिन्दुरीशानः । कला व्यापको भवति ।
अनुसन्धानो नित्यः । ध्यानस्वरूपं ब्रह्म । सर्वव्यापकोऽष्टाक्षरः ॥
नारायणः परं ब्रह्म ज्ञानं नारायणः परः ।
नारायणं महापुरुषं विश्वमात्मानमव्ययम् ॥
अन्तर्बहिश्च तत्सर्वे स्थितो नारायणः परः ।
सहस्रशीर्ष वमक्षरं परमं पदम् ॥
नारायणं शिवं शान्तं सर्ववेदान्तगोचरम् ।
सृष्टिः स्थितिश्च संहारतिरोधानानुसंमतम् ।
पञ्चकृत्यस्य कर्तारं नारायणमनामयम् ॥
इत्याथर्वणरहस्ये नारायणपूर्वतापिनीये प्रथमः खण्डः
U 10