2026-02-09 02:57:00 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>तुलस्युपनिषत्
</ignore>
<verse>त्वमेव सुरसंसेव्या त्वमेव मोक्षदायिनी ।
त्वच्छायायां वसेल्लक्ष्मीस्त्वन्मूले विष्णुरव्ययः ॥
</verse>
<verse>समन्ताद्देवताः सर्वाः सिद्धचारणपन्नगाः ।
यन्मूले सर्वतीर्थानि यन्मध्ये ब्रह्मदेवताः ॥
</verse>
<verse>यदग्रे वेदशास्त्राणि तुलसीं तां नमाम्यहम् ।
तुलसि श्रीसखि शुभे पापहारिणि पुण्यदे ॥
</verse>
<verse>नमस्ते नारदनुते नारायणमनः प्रिये ।
ब्रह्मानन्दाश्रुसंजाते वृन्दावननिवासिनि ॥
</verse>
<verse>सर्वावयवसंपूर्णे अमृतोपनिषद्र से ।
त्वं मामुद्धर कल्याणि महापापाव्धिदुस्तरात् ॥
</verse>
<verse>सर्वेषामपि पापानां प्रायश्चित्तं त्वमेव हि ।
देवानां च ऋषीणां च पितॄणां त्वं सदा प्रिये ॥
</verse>
<verse>विना श्रीतुलसीं विप्रा येऽपि श्राद्धं प्रकुर्वते ।
वृथा भवति तच्छ्राद्धं पितॄणां नोपगच्छति ॥
</verse>
<verse>तुलसीपत्रमुत्सृज्य यदि पूजां करोति वै ।
आसुरी सा भवेत् पूजा विष्णुप्रीतिकरी न च ॥
</verse>
<verse>यज्ञं दानं जपं तीर्थं श्राद्धं वै देवतार्चनम् ।
तर्पणं मार्जनं चान्यन्न कुर्यात्तुलसीं विना ॥
</verse>
<verse>तुलसीदारुमणिभिः जपः सर्वार्थसाधकः ।
एवं न वेद यः कश्चित् स विप्रः श्वपचाधमः ॥
</verse>
<ignore>७१
</ignore>
<p merge-next="true">इत्याह भगवान् ब्रह्माणं नारायण:णः, ब्रह्मा नारदसनकादिभ्यः, सनका-
दयो वेदव्यासाय, वेदव्यासः शुकाय, शुको वामदेवाय, वामदेवो मुनिभ्यः,
मुनयो मनुभ्यः प्रोचुः । य एवं वेद स स्त्रीहत्यायाः प्रमुच्यते । स वीरह-
</p>
</page>
<ignore>तुलस्युपनिषत्
<verse>त्वमेव सुरसंसेव्या त्वमेव मोक्षदायिनी ।
त्वच्छायायां वसेल्लक्ष्मीस्त्वन्मूले विष्णुरव्ययः ॥
<verse>समन्ताद्देवताः सर्वाः सिद्धचारणपन्नगाः ।
यन्मूले सर्वतीर्थानि यन्मध्ये ब्रह्मदेवताः ॥
<verse>यदग्रे वेदशास्त्राणि तुलसीं तां नमाम्यहम् ।
तुलसि श्रीसखि शुभे पापहारिणि पुण्यदे ॥
<verse>नमस्ते नारदनुते नारायणमनः
ब्रह्मानन्दाश्रुसंजाते वृन्दावननिवासिनि ॥
<verse>सर्वावयवसंपूर्णे अमृतोपनिषद्र
त्वं मामुद्धर कल्याणि महापापाव्धिदुस्तरात् ॥
<verse>सर्वेषामपि पापानां प्रायश्चित्तं त्वमेव हि ।
देवानां च ऋषीणां च पितॄणां त्वं सदा प्रिये ॥
<verse>विना श्रीतुलसीं विप्रा येऽपि श्राद्धं प्रकुर्वते ।
वृथा भवति तच्छ्राद्धं पितॄणां नोपगच्छति ॥
<verse>तुलसीपत्रमुत्सृज्य यदि पूजां करोति वै ।
आसुरी सा भवेत् पूजा विष्णुप्रीतिकरी न च ॥
<verse>यज्ञं दानं जपं तीर्थं श्राद्धं वै देवतार्चनम् ।
तर्पणं मार्जनं चान्यन्न कुर्यात्तुलसीं विना ॥
<verse>तुलसीदारुमणिभिः जपः सर्वार्थसाधकः ।
एवं न वेद यः कश्चित् स विप्रः श्वपचाधमः ॥
<ignore>७१
<p merge-next="true">इत्याह भगवान् ब्रह्माणं नाराय