This page has been fully proofread once and needs a second look.

<page>
<ignore>
७०
 
</ignore>
<ignore>
वैष्णव- उपनिषदः
 
</ignore>
<title>
तुलस्युपनिषत्
 

 
</title>
<p>
अथ तुलस्युपनिषदं व्याख्यास्यामः । नारद ऋषिः । अथर्वाङ्गि-

रश्छन्दः । अमृता तुलसी देवता । सुधा बीजम् । वसुधा शक्तिः । नारायणः

कीलकम् । श्यामां श्यामवपुर्धरां ऋक्स्वरूपां यजुर्मनां <add>[?]</add> ब्रह्माथर्वप्राणां

कल्पहस्तां पुराणपठितां अमृतोद्भवां अमृतरसमञ्जरीं अनन्तां अनन्तरसभोगदां

वैष्णवीं विष्णुवल्लभां मृत्युजन्मनिबर्हणीं दर्शनात्पापनाशिनीं स्पर्शनात्पावनीं

अभिवन्दनाद्रोगनाशिनीं सेवनान्मृत्युनाशिनीं वैकुण्ठार्चनाद्विपद्धन्त्रीं भक्षणात्

वयुनप्रदां प्रादक्षिण्याद्दारिद्र्यनाशिनीं मूलमृल्लेपनान्महापापभञ्जिनीं प्राण-

तर्पणादन्तर्मलनाशिनीं य एवं वेद स वैष्णवो भवति । वृथा न छिन्द्यात् ।

दृष्टाट्वा प्रदक्षिणं कुर्यात् । यां न स्पृशेत् । पर्वणि न विचिन्वेत् । यदि

विचिन्वति स विष्णुहा भवति । श्रीतुलस्यै स्वाहा । विष्णुप्रियायै स्वाहा ।

अमृतायै स्वाहा । श्रीतुलस्यै विद्महे विष्णुप्रियायै धीमहि । तन्नो अमृता

प्रचोदयात् ॥
 
</p>
<verse>
अमृतेऽमृतरूपासि अमृतत्वप्रदायिनि ।
 

त्वं मामुद्धर संसारात् क्षीरसागरकन्यके ॥
</verse>
<verse>
श्रीसखि त्वं सदानन्दे मुकुन्दस्य सदा प्रिये ।

वरदाभयहस्ताभ्यां मां विलोकय दुर्लभे ॥
</verse>
<verse>
अवृक्षवृक्षरूपासि वृक्षत्वं मे विनाशय ।

तुलस्यतुलरूपासि तुलाकोटिनिभेऽजरे ॥
 
</verse>
<verse>
अतुले त्वतुलायां हि हरिरेकोऽस्ति नान्यथा ।

त्वमेव जगतां धात्री त्वमेव विष्णुवल्लभा ॥
 
</verse>
</page>