This page has been fully proofread once and needs a second look.

<page>
<ignore>
६२
 
</ignore>
<ignore>
सामान्यवेदान्त- उपनिषदः
 
</ignore>
<p>
न तच्छब्दः न किंशब्दः न सर्वे शब्दाः न माता नो पिता न

बन्धुः न भार्या न पुत्रो न मित्रं नो सर्वे तथापि साधकैरात्मस्वरूपं

वेदितुमिच्छद्भिर्जीवन्मुमुक्षुभिः सन्तः सेव्याः । भार्या पुत्रो गृहं धनं सर्वं तेभ्यो

देयम् । कर्माद्वैतं न कार्यं भावाद्वैतं तु कार्यम् । निश्चयेन सर्वा द्वैतं कर्तव्यम् ।

गुरौ द्वैतमवश्यं कार्यम् । यतो न तस्मादन्यत् । येन सर्वमिदं प्रकाशितम् ।

कोऽन्यः तस्मात्परः । स जीवन्मुक्तो भवति स जीवन्मुक्तो भवति । य एवं

वेद । य एवं वेद ॥
 
</p>
<trailer>
इति स्वसंवेद्योपनिषत् संपूर्णा
 
</trailer>
</page>