2026-02-08 07:39:51 by ambuda-bot
This page has not been fully proofread.
६२
सामान्यवेदान्त- उपनिषदः
न तच्छब्दः न किंशब्दः न सर्वे शब्दाः न माता नो पिता न
बन्धुः न भार्या न पुत्रो न मित्रं नो सर्वे तथापि साधकैरात्मस्वरूपं
वेदितुमिच्छद्भिर्जीवन्मुमुक्षुभिः सन्तः सेव्याः । भार्या पुत्रो गृहं धनं सर्व तेभ्यो
देयम् । कर्माद्वैतं न कार्य भावाद्वैतं तु कार्यम् । निश्चयेन सर्वा द्वैतं कर्तव्यम् ।
गुरौ द्वैतमवश्यं कार्यम् । यतो न तस्मादन्यत् । येन सर्वमिदं प्रकाशितम् ।
कोऽन्यः तस्मात्परः । स जीवन्मुक्तो भवति स जीवन्मुक्तो भवति । य एवं
वेद । य एवं वेद ॥
इति स्वसंवेद्योपनिषत् संपूर्णा