This page has been fully proofread once and needs a second look.

<page>
<ignore>
स्वसंवेद्योपनिषत्
 
</ignore>
<ignore>
६१
 
</ignore>
<p>
मध्येऽवसाने सर्वे यथावस्थितं यथावस्थितज्ञानं तेषां नो भवत्यागमपुराणेति-

हासधर्मशास्त्रेषु धृताभिमानास्ते । यत्तानि तु मुग्धतरमुनिशब्दवाच्यैः जीवबुद्बुदैः

रचितानीति भवन्ति । तत्र प्रामाण्यं तादृशानामेव । ते त्वज्ञानेनावृताः स-

यत्नेन गर्भास्तदप्येष श्लोको भवति । तदत्र श्लोको भवति ॥
 
</p>
<p>
इह तेनाप्यज्ञानेन नो किञ्चित् । अथ यथावस्थितज्ञानेन किंचित्

नेति यदस्ति तदस्ति यन्नास्ति नास्ति तत् । कालकर्मात्मकमिदं स्वभावात्मकं

चेति । न सुकृतं नो दुष्कृतम् । अत एव सुमेरुदातारो गोदातारो वा

गोघ्नैः ब्राह्मणन्घ्नैः सुरापानैः पश्यतोहरैः परोक्ष हरैर्बावा गुरुपापनिष्ठैः सर्वपापनिष्ठैः

समानास्त एते । तैश्च न गौः न ब्राह्मणः न सुरा न पश्यतोहरः न

परोक्षहरः न गुरुपापानि न लघुपापानि मत एव तन्निष्ठाः मत एव न

निर्वाणं नो निरय इति तदप्येष श्लोको भवति ॥
 
</p>
<p>
तत्त्वज्ञानं गुहायां निविष्टमज्ञानिकृतमार्गM सुष्ठु वदन्ति । ते

तत्र साभिमाना वर्तन्ते । पुष्पितवचनेन मोहितास्ते भवन्ति । स

यथातुरा भिषग्रहणकाले बाला अपथ्याहितगुडादिना जनन्या वञ्चिता

इति नानादेवता गुरुकर्मतीर्थनिष्ठाश्च ते भवन्ति । केचिद्वयं वैदिका

इति वदन्ति । नान्येऽस्मभ्यम् । केचिद्वयं सर्वशास्त्रज्ञा इति । केचिद्वयं

देवानुग्रहवन्तः । केचिद्वयं स्वप्ने उपास्यदेवताभाषिणः । केचिद्वयं देवा इति ।

केचिद्वयं श्रीमद्रमारमणनलिनभृङ्गा इति । केचित्तु नृत्यन्तु । केचित्तु मूर्खा

वयं परमभक्ता इति वदन्तो रुदन्ति पतन्ति च । ये केचनैते ते सर्वेऽप्य-

ज्ञानिनः । ये तु ज्ञानिनो भवन्ति ये तत्त्वज्ञानिनश्च तैस्तेषां को विशेषः ।

मत एव केषाञ्चित्कैश्चि:द्भेदः । मत एव यत्र विरिञ्चिविष्णुरुद्रा ईश्वरश्च

गच्छन्ति तत्रैव श्वानो गर्दभाः मार्जाराः कृमयश्च मत एव न श्वानगर्दभौ न

मार्जारः न कृमि: नोत्तमाः न मध्यमाः न जघन्याः । तदप्येष श्लोको भवति ॥
 
</p>
</page>