This page has been fully proofread once and needs a second look.

<page>
<ignore>सामान्यवेदान्त-उपनिषदः</ignore>
<p>चतुराशासु मायामङ्कुशं च माख <add>(?)</add> ष्वष्टसु तत्तदाद्यर्णमध्ये तृतीय-
नामादिकमिति देशिकोक्त्या सर्वे विज्ञाय साधकः सिद्ध्यति ॥</p>
<verse>गुरुभक्ताय शान्ताय प्रदेयं नियतात्मने ।
न च शुश्रूषवे वाच्यं हैतुकाय कदाचन ॥</verse>
<verse>देशिकोक्तविधानेन यन्त्रे देवं प्रपूजयेत् ।
अर्घ्यदानं ततः कुर्याद्भानुरप्रियः सदा ॥</verse>
<verse>देशिकोक्तेन मन्त्रेण तृचेन च यथाविधि ।
साधकः साधयेत् सर्वमिह लोके परत्र च ॥</verse>
<verse>किं पुत्र बहुनोक्तेन सत्यं सत्येन मे शपे ।
प्रत्यक्षदैवतं सूर्यः परोक्षं सर्वदेवताः ॥</verse>
<verse>सूर्यस्योपासनं कार्यं गच्छेत् सूर्यसꣳ सदम् ।
गच्छेत् सूर्यसꣳसदं गच्छेत् सूर्यसꣳसदमिति ॥</verse>
<trailer>इत्याथर्वणशिरसि सूर्यतापिनीये षष्ठः पटल:</trailer>
<trailer text="END">सूर्यतापिन्युपनिषत् समाप्ता</trailer>
<title text="SVA_START">स्वसंवेद्योपनिषत्</title>
<p merge-next="true">ॐ सर्वेषां प्राणिबुद्बुदानां निरंजनाव्यक्तामृतनिधौ विलयविलासः
स्थितिर्विजृम्भते । तेषामेव पुनर्भवनं नो इहास्ति । स यथा मृत्पिण्डे घटानां
तन्तौ पटानां तथैवेति भवति । वस्तुतो नोपादानमत एव नोपादेयमत एव
न निमित्तमत एव न विद्या न पुराणं नो वेदा नेतिहासा इति न जगदिति
नं ब्रह्मा नो विष्णुः नाथ रुद्रो नेश्वरो न बिन्दुः नो कलेति अग्रे</p>
</page>