2026-02-23 05:54:55 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>५८
</ignore>
<ignore>सामान्यवेदान्त-उपनिषदः
</ignore>
<ignore>1
</ignore>
<p>कृत्वाऽधो निपपात । नमो नम इति । स होवाच । मा भैषीर्गौतम
जितो वै ते लोक इति । तस्माद्ये केच सावित्रं विदुः । सर्वेवं ते जितलोकाः ।
उद्यन्नद्य मित्र महः । सपत्नान्मे अनीनशः । दिवैनान्विद्युता जहि । निम्रो-
चन्नधरान् कृधि । न्यासोपयोगस्तथैवार्घ्यदाने च पादन्यास आद्योऽर्धर्चन्यासो
द्वितीयरुज्ञस <add>(?)</add> स्तृतीयस्तृचन्यासश्च बीजन्यासो हंसन्यास इति बहुधा
वर्णयन्ति ॥
</p>
<trailer>इत्याथर्वणशिरसि सूर्यतापिनीये तृतीयः पटलः ।
</trailer>
<metadata>div.n = 4</metadata>
<heading>चतुर्थ:थः पटल:
लः</heading>
<p>अथ पूजाविधानं वक्ष्ये --- यन्त्रस्य पूर्वद्वारे द्वारश्रियै क्षेत्रपालाय
मायायै नम इति दक्षिणतो द्वारश्रियै गणेशाय मायायै प्रत्यक्तो दुर्गायै मा-
या
यायै उदक्तो महालक्ष्म्यै मायायै नमः । पूर्वपत्रे सूर्यायाग्ने यपत्रे रवये दक्षिणे
विवस्वते नैर्ऋतौ खगाय पश्चिमे वरुणाय वायव्ये मित्राय सौम्ये आदित्याय
ईशान्ये नमो महसे भास्कराय नम इत्यथाष्टदळपूजादित्यसवितृ-
सूर्यखगपूषगभस्तिमार्ताण्डजगच्चक्षुभिरष्टभिर्जातैरथ पीठपूजाधारशक्तिमूल-
प्रकृतिकूर्मानन्तवराहपृथिवीसुवर्णमण्टपरत्नसिंहासनैर्डिङिन्तैः धर्मज्ञानवैराग्यैश्व-
र्यैर्नञ्पूर्वैश्च ङिन्तैर्ऋग्वेदादिभिश्चतुर्भिः कृतादिभिश्चतुर्भिर्मन्दारादिभिः पञ्चभिः
पीठकल्पमूलकन्दनाळपद्मपत्र केसरकर्णिकासूर्यमण्डलसोमवह्निब्रह्मविष्णुरुद्रसत्व -
रजस्तमआत्मान्तरात्मा परमात्मभूः पुरुषभुवः पुरुषसुवः पुरुषभूर्भुवस्सुवः
पुरुषाद्यैर्डिन्तैस्तृचेन सर्वोपचारोपयोगस्तेन सर्वाघौघनिवृत्तिः सिद्ध्यतीति ॥
</p>
<trailer>इत्याथर्वणशिरसि सूर्यतापिनीये चतुर्थ: पटल:
</trailer>
</page>
<ignore>५८
<ignore>सामान्यवेदान्त-उपनिषदः
<ignore>1
<p>कृत्वाऽधो निपपात । नमो नम इति । स होवाच । मा भैषीर्गौतम
जितो वै ते लोक इति । तस्माद्ये केच सावित्रं विदुः । सर्
उद्यन्नद्य मित्र महः । सपत्नान्मे अनीनशः । दिवैनान्विद्युता जहि । निम्रो-
चन्नधरान् कृधि । न्यासोपयोगस्तथैवार्घ्यदाने च पादन्यास आद्योऽर्धर्चन्यासो
द्वितीयरुज्ञस <add>(?)</add> स्तृतीयस्तृचन्यासश्च बीजन्यासो हंसन्यास इति बहुधा
वर्णयन्ति ॥
<trailer>इत्याथर्वणशिरसि सूर्यतापिनीये तृतीयः पटलः ।
<metadata>div.n = 4</metadata>
<heading>चतुर्
<p>अथ पूजाविधानं वक्ष्ये --- यन्त्रस्य पूर्वद्वारे द्वारश्रियै क्षेत्रपालाय
मायायै नम इति दक्षिणतो द्वारश्रियै गणेशाय मायायै प्रत्यक्तो दुर्गायै मा-
या
यायै उदक्तो महालक्ष्म्यै मायायै नमः । पूर्वपत्रे सूर्यायाग्ने
विवस्वते नैर्ऋतौ खगाय पश्चिमे वरुणाय वायव्ये मित्राय सौम्ये आदित्याय
ईशान्ये नमो महसे भास्कराय नम इत्यथाष्टदळपूजादित्यसवितृ-
सूर्यखगपूषगभस्तिमार्ताण्डजगच्चक्षुभिरष्टभिर्जातैरथ पीठपूजाधारशक्तिमूल-
प्रकृतिकूर्मानन्तवराहपृथिवीसुवर्णमण्टपरत्नसिंहासनैर्
र्यैर्नञ्पूर्वैश्च ङिन्तैर्ऋग्वेदादिभिश्चतुर्भिः कृतादिभिश्चतुर्भिर्मन्दारादिभिः पञ्चभिः
पीठकल्पमूलकन्दनाळपद्मपत्र