This page has been fully proofread once and needs a second look.

<page>
<ignore>
सूर्यतापिन्युपनिषत्
 
</ignore>
<ignore>
५७
 
</ignore>
<p>
शपतः शपात् । उषाश्च तस्मै निम्रुक् च । सर्वेवं पापं समूहताम् । इत्येक
 
र्चो
रोगघ्नः प्रत्यर्थिहारी ।
 
</p>
<verse>
आकाशो वह्निना युक्तो दीर्घाद्यश्च सबिन्दुकः ।
 

आद्योऽयमर्णकोपिष्ठो द्वितीयेन द्वितीयकः ॥
 
</verse>
<verse>
तृतीयेन तृतीयः स्यात् द्वादशेन तृतीयकः ।

भूतेन पञ्चमः प्रोक्तः षष्ठः षोडशतः स्वरात् ॥
</verse>
<verse>
षडर्चोऽयं महामन्त्रः सर्वसिद्धिप्रदायकः ।

एतन्मन्त्रं मयोद्दिष्टं गुह्याद्गुह्यतमं महत् ॥
</verse>
<verse>
एतज्जत्वा महामन्त्रं सर्वपापैः प्रमुच्यते ।

पूजयित्वा विवस्वन्तमर्घ्यदानं समाचरेत् ।

एवं यः कुरुते पूजां मुच्यते सर्वकिल्बिषैः ॥
 
</verse>
<p>
सर्वामश्नुत इति ॥
 
</p>
<trailer>
इत्याथर्वणशिरसि सूर्यतापिनीये द्वितीयः पटल:
 
</trailer>
<metadata>div.n = 3</metadata>
<heading>
तृतीय:यः पटल:
 
लः</heading>
<p merge-next="true">
अथ सौरमनूनि प्रवक्ष्यामि निगमोदितानि । घृणिरिति द्वे अक्षरे ।

सूर्य इति त्रीणि । आदित्य इति त्रीणि । एतद्वै सावित्रस्याष्टाक्षरं पदं

श्रियाभिषिक्तम् । य एवं वेद । श्रिया हैवाऽभिषिच्यते । सह वा एतस्य

स्वधा न यजुषा न साम्नामर्थोऽस्ति । यस्सावित्रं वेद । अहो नाहाश्वथ्यः ।

सावित्रं विदाञ्चकार । तं ह वागदृश्यमानाभ्युवाच । सर्वेवं बत गौतमो वद !

यस्सावित्रं वेदेति । स होवाच । सैषा वागसीति । अयमहं सावित्रः ।

देवानामुत्तमो लोकः । गुह्यं महो बिभ्रदिति । एतावदिह गौतम :मः यज्ञोपवीतं
 
</p>
<ignore>
U 8
 
</ignore>
</page>