2026-02-08 07:39:50 by ambuda-bot
This page has not been fully proofread.
सूर्यतापिन्युपनिषत्
५७
शपतः शपात् । उषाश्च तस्मै निम्रुक् च । सर्वे पापं समूहताम् । इत्येकच
रोगघ्नः प्रत्यर्थिहारी ।
आकाशो वह्निना युक्तो दीर्घाद्यश्च सबिन्दुकः ।
आद्योऽयमर्णकोपिष्ठो द्वितीयेन द्वितीयकः ॥
तृतीयेन तृतीयः स्यात् द्वादशेन तृतीयकः ।
भूतेन पञ्चमः प्रोक्तः षष्ठः षोडशतः स्वरात् ॥
षडर्चोऽयं महामन्त्रः सर्वसिद्धिप्रदायकः ।
एतन्मन्त्रं मयोद्दिष्टं गुह्याद्गुह्यतमं महत् ॥
एतज्जत्वा महामन्त्रं सर्वपापैः प्रमुच्यते ।
पूजयित्वा विवस्वन्तमर्घ्यदानं समाचरेत् ।
एवं यः कुरुते पूजां मुच्यते सर्वकिल्बिषैः ॥
सर्वामश्नुत इति ॥
इत्याथर्वणशिरसि सूर्यतापिनीये द्वितीयः पटल:
तृतीय: पटल:
अथ सौरमनूनि प्रवक्ष्यामि निगमोदितानि । घृणिरिति द्वे अक्षरे ।
सूर्य इति त्रीणि । आदित्य इति त्रीणि । एतद्वै सावित्रस्याष्टाक्षरं पदं
श्रियाभिषिक्तम् । य एवं वेद । श्रिया हैवाऽभिषिच्यते । सह वा एतस्य
स्वधा न यजुषा न साम्नामर्थोऽस्ति । यस्सावित्रं वेद । अहो नाहाश्वथ्यः ।
सावित्रं विदाञ्चकार । तं ह वागदृश्यमानाभ्युवाच । सर्वे बत गौतमो वद !
यस्सावित्रं वेदेति । स होवाच । सैषा वागसीति । अयमहं सावित्रः ।
देवानामुत्तमो लोकः । गुह्यं महो बिभ्रदिति । एतावदिह गौतम : यज्ञोपवीतं
U 8