This page has been fully proofread once and needs a second look.

<page>
<ignore>५६</ignore>
<ignore>सामान्यवेदान्त - उपनिषदः</ignore>
<verse>न देयं चञ्चलाक्षाय नाभक्ताय कदाचन ।
हसन्ति लोकायतिका हसन्ति कुटिला जनाः ॥</verse>
<verse>तस्माद्गोप्यं प्रयत्नेन न देयं यस्य कस्यचित् ।
रोगी रोगात् प्रमुच्येत बद्धो मुच्येत बन्धनात् ॥</verse>
<verse>तथा प्रत्यर्थिकृत्याभिर्मन्त्रयन्त्रादिकिल्बिषैः ।
किं पुत्र बहुनोक्तेन सत्यं सत्येन मे शपे ॥ इति ॥</verse>
<ptrailer>इत्याथर्वणशिरसि सूर्यतापिनीये प्रथमः पटलः</ptrailer>
<metadata>div.n = 2</metadata>
<heading>द्वितीय: पटल:</heading>
<p>सनत्कुमारो भगवन्तं पितरं प्रणिपत्य पप्रच्छ ॥</p>
<verse>कथं ध्यानं कथं न्यासः कथं पूजाविधानकम् ।
अर्घ्यदानं कथं कार्यं ब्रवीतु भगवानिदम् ॥ इति ॥</verse>
<p>ततो भगवान् पितामह आह---</p>
<verse>यतवाक्कायमनसः सूर्यभक्तो ब्रह्मचारी व्रतधरः ष <ellipsis>. . . . .</ellipsis></verse>
<p merge-next="true">समुदायगुरुं कृधि । उद्यन्नद्यमिनो भज । पिता पुत्रेभ्यो यथा । दीर्घायुत्वस्य
हेशिषे । तस्य नो देहि सूर्य । इति द्व्यर्चं महामन्त्रं जप्त्वा प्रत्यर्थिनो जयति ।
उद्यन्नद्यमित्र महः । आरोहन्नुत्तरां दिवम् । हृद्रोगं मम सूर्य । हरि-
माणं च नाशय । शुकेषु मे हरिमाणम् । रोपणाकासु दध्मसि । अथो
हारिद्रवेषु मे । हरिमाणं निदध्मसि । उदगादयमादित्यः । विश्वेन सहसा
सह । द्विषन्तं मम रन्धयन् । मो अहं द्विषतो रथम् । उद्यन्नद्येत्ययं तृचो
रोगघ्नः उपनिषदंत्यार्धर्चशो द्विषं <add>(?)</add> ना <add>(?)</add> यो नः शपादशपत् । यश्च नः</p>
</page>