This page has not been fully proofread.

५६
 
सामान्यवेदान्त - उपनिषदः
 
न देयं चञ्चलाक्षाय नाभक्ताय कदाचन ।
हसन्ति लोकायतिका हसन्ति कुटिला जनाः ॥
तस्माद्गोप्यं प्रयत्नेन न देयं यस्य कस्यचित् ।
रोगी रोगात् प्रमुच्येत बद्धो मुच्येत बन्धनात् ॥
तथा प्रत्यर्थिकृत्याभिर्मन्त्रयन्त्रादिकिल्बिषैः ।
किं पुत्र बहुनोक्तेन सत्यं सत्येन मे शपे ॥ इति ॥
इत्याथर्वणशिरसि सूर्यतापिनीये प्रथमः पटल:
 
द्वितीय: पटल:
 
सनत्कुमारो भगवन्तं पितरं प्रणिपत्य पप्रच्छ ॥
कथं ध्यानं कथं न्यासः कथं पूजाविधानकम् ।
अर्घ्यदानं कथं कार्य ब्रवीतु भगवानिदम् ॥ इति ॥
 
ततो भगवान् पितामह आह-
 
यतवाक्कायमनसः सूर्यभक्तो ब्रह्मचारी व्रतधरः य
 
"
 

 
समुदाय गुरुं कृधि । उद्यन्नद्यमिनो भज । पिता पुत्रेभ्यो यथा । दीर्घायुत्वस्य
शिषे । तस्य नो देहि सूर्य । इति द्वय महामन्त्रं जप्त्वा प्रत्यर्थिनो जयति ।
उद्यन्नद्यमित्र महः । आरोहन्नुत्तरां दिवम् । हृद्रोगं मम सूर्य । हरि-
माणं च नाशय । शुकेषु मे हरिमाणम् । रोपणाकासु दध्मसि । अथो
हारिद्रवेषु मे । हरिमाणं निदध्मसि । उद्गादयमादित्यः । विश्वेन सहसा
सह । द्विषन्तं मम रन्धयन् । मो अहं द्विषतो रथम् । उद्यन्नद्येत्ययं तृचो
रोगघ्नः उपनिषदंत्यार्धर्चशो द्विषं (?) ना (?) यो नः शपादशपत् । यश्च नः