2026-02-23 05:44:55 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>सूर्यतापिन्युपनिषत्</ignore>
<ignore>९५</ignore>
<p>ahnaHअह्नः । सामवेदेनास्तमये महीयते । वेदैरशून्यस्त्रिभिरेति सूर्यः । ऋग्भ्यो
जातां सर्वशो मूर्तिमाहुः ॥</p>
<verse>एष ब्रह्मा च विष्णुश्च रुद्र एष हि भास्करः ।
त्रिमूर्त्यात्मा त्रिवेदात्मा सर्वदेवमयो रविः ॥ इति ।</verse>
<p>योगेन ऊर्ध्वमन्थिनः सूर्यं भगवन्तमुपासते । धनधान्यबहुरत्नवन्तो निर्व्याधिवन्त
आयुष्यवन्त आरोग्यवन्तो रयिवन्तो धनवन्तो बलवन्तो बहुपुत्रवन्त इति ।
यः श्रीकामः शान्तिकामः तुष्टिकामः पुष्टिकामो मेधाकामः प्रज्ञाकाम
आयुष्काम आरोग्यकामोऽन्नाद्यकामो भास्करं भगवन्तमुपासीत । सयोनिः
सरूपतां सलोकतां गत्वा स्तुत्वा महानन्दमुदकमुपस्पृश्यापोऽवगाह्य वाग्यतः
नित्यकर्म कृत्वा शुचौ देशेऽप्यासीनो दर्भान् धारयमाणः प्राङ्मुख उपविश्य
प्राणानायम्य देशकालौ सङ्कीर्त्य त्रिवेदमयं त्रिमूर्तिं त्रिगुणं चतुष्पदं पञ्च-
रूपं षडर्णवेद्यं सप्ताश्वमष्टशापेति <add>(?)</add> मुदयाद्रिसमारूढमुदयन्तं पद्मकरं पद्मासनं
पद्मनयनं पद्मबान्धवं दिव्याम्बरधरं दिव्यगन्धानुलेपनं सर्वाभरणभूषितं
सर्ववेदसं सर्वदेवाधिदैवतं सर्वदेवनमस्यन्तं काश्यपं भास्करं ध्यात्वा प्रस्कण्वः
कण्वपुत्रो मुनिरस्य छन्दोऽनुष्टुब्भास्करो द्वादशात्मको दैवतमुदात्तस्वरो ज्ञानं
नेत्रं सूर्यस्तत्त्वं प्रथमं बीजं द्वितीयं शक्तिस्तृतीयं कीलकमथापि श्रींबीजं शक्तिः
सूर्य इति कीलकम् । अथ पादाद्यैरर्धर्चैः ऋग्भिस्तृचेन द्वादशभिर्नामभिः
मित्ररविसूर्यभानुखगपूषहिरण्यगर्भमरीच्यादित्यसवित्रर्कभास्कराख्यैः षड्बीजैः
संपुटिताः । स्तस्य सिध्यन्ति । गच्छेदंते परं पदम् ॥</p>
<verse>प्रोक्तमादित्यमाहात्म्यं यन्मां त्वमनुपृच्छसि ।
प्रत्यक्षदैवतं भानुः परोक्षं सर्वदेवताः ॥</verse>
<verse>तद्ध्यानं पूजनं कार्यMयं श्रेयस्कामैर्जितेन्द्रियैः ।
जितेन्द्रियाय शान्ताय मन्त्रं देयमिदं महत् ॥</verse>
</page>
<ignore>सूर्यतापिन्युपनिषत्</ignore>
<ignore>९५</ignore>
<p>

<verse>तद्ध्यानं पूजनं कार्