2026-02-08 07:39:49 by ambuda-bot
This page has not been fully proofread.
५४
सामान्यवेदान्त - उपनिषदः
यदेष सर्वाणि भूतान्यनुप्रविष्टस्तन्मर्त्या५ आविवेशेति । तस्मादो-
मित्येकाक्षरमुद्गीथमुपासीतेत्याह भगवान् शौनकः शौनक इति ॥
इति शौनकोपनिषत् समाप्ता
सूर्यतापिन्युपनिषत्
प्रथमः पटल:
ॐ अथ भगवन्तं कमलासनं चतुर्मुखं पितरं ब्रह्माणं सनत्कुमार
उपससार । प्रणनामाहं भो इति । अधीहि भो इति पप्रच्छ । को मनुः ।
दिव्यं किं ध्येयम् । यज्जपात्सर्वैनोनिवृत्तिः । यद्वयानात्सारूप्यसिद्धिः तद्ब्रवीतु
भगवान् लोकानुग्रहार्यति । तच्छ्रुत्वा पितामह आह -- शृणोतु भवानेकमनाः
सर्वदा यमामनन्ति यन्नमस्यन्ति देवाः स ब्रह्मा स शिवः स हरिस्सेन्द्रः
सोऽक्षरः परमः स्वराट् स सूर्यो भगवान् सहस्रांशुः तं सूर्य भगवन्तं
सर्वस्वरूपिणं निगमा बहुधा वर्णयन्ति । कश्यपः पश्यको भवति । यत्सर्वं
परिपश्यतीति सौक्ष्म्यात् । कश्यपादुदिताः सूर्याः पापान्निन्ति सर्वदा ।
रोदस्योरन्तर्देशेषु । अपैतं मृत्युं जयति । य एवं वेद । योऽसौ तपन्नुदेति ।
असौ योऽस्तमेति । असौ योऽपक्षीयति । एष हि देवः प्रदिशोऽनुसर्वाः
पूर्वो हि जातः स उ गर्भे अन्तः । स विजायमानः स जनिष्यमाणः
प्रत्यङ्मुखास्तिष्ठति विश्वतोमुखः । असौ योऽवसर्पति नीलग्रीवो विलोहितः ।
उतैनं गोपा अदृशन्नदृशन्नुदहार्यः । उतैनं विश्वा भूतानि स दृष्टो
मृडयाति नः । ऋग्भिः पूर्वा दिवि देव ईयते । यजुर्वेदे तिष्ठति मध्ये
1