2026-02-18 04:54:39 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>शौनकोपनिषत्
</ignore>
<ignore>९३
ह तैरेव
</ignore>
<p>ते हासुराः पुनरेवोदपतिष्यन्त । ते ह तृतीयस्येह सवनस्य पवमानेषु
यज्ञवास्त्वभ्यायन् । तेषामिमे बिभ्यत एवांशू नुपाकल्पयन् । ते
ह तैरेव
देवानपाजिघांसन् । तेषामिन्द्रो जगतीमेव प्रतिसंदिदेश । साब्रवीत् बिभेमि
वा एतदेतेभ्यो यथौजीयांसो बलीयांस इमे परावृतन्निति । तस्या इन्द्रः
प्रणवमेव पुरोगामकरोत् । स होवाच । किं मेऽतः स्यादिति । स
होवाचेन्द्रो यत्त्वामुद्गीथेनोपावनेष्यन्ते तेनैव ते कल्पयिप्ष्यन्तीति । सेनान्यो
हि तर्ह्रायादित्यान कल्पयन् तम्स्माज्जागतं तृतीयसवनमादित्यानाम् । स
हापश्यदादित्यो वा उद्गीथोऽसौ खल्वादित्यो ब्रह्म । न ह वा एनं मिथु
चिदेमीति । स ह स्वेनैव रूपेणादित्यानगच्छत् । स ह तेनैव वज्रेणासुरान्
पराभावयन् । तद्यत् स्वेनैव रूपेणाविस्तरामगच्छत्तत्प्रतिष्ठामविन्दत् ।
प्रतिष्ठा ह वा एषा यत्प्रणवः । सर्वाणि ह वा इमानि भूतानि प्रणव एव
प्रतितिष्ठन्ति । तस्य ह वा एषा प्रतिष्ठा यत्रासावात्मानमुपसंहृत्याजूगुपत् ।
तस्मात्तदेवोपन्वीतेति तदेवोपासीत । तदेतदृचाभ्युक्तम्--
-</p>
<verse>चत्वारि शृङ्गा त्रयो अस्य पादाः
द्वे शीर्षे सप्तहस्तासो अस्य ।
त्रिधा <flag>बद्बोवो</flag> वृषभो रोरवीति
महो देवो मर्त्या ५ꣳ आविवेश ॥ इति ॥
--
</verse>
<p>यदिमास्तिस्रोथासाविति चत्वारीति । यदिमे द्वे एवाक्षरे त्रिभिरुपन्वन्ति
तत्त्रय इति । यत्प्रत्यक्षं तद्वे इति । यदुद्गीथं सप्तभिरभिप्रपद्यन्ते तत्सप्तेति ।
अथो खल्वाहुः । सप्तभिरेनं स्वारयन्तीति । यदीमान् त्रीनभिधत्ते तत्त्रिवेति ।
धेति ।
यदिन्द्र एवोद्गीथस्तद्वृषभ इति । तदेतदृचाभ्युक्तम्—
---</p>
<verse>मरुत्वन्तं वृषभं वावृधानम् ।
य
यद्द्रावयन्ति तद्रोरवीति ॥
</verse>
</page>
<ignore>शौनकोपनिषत्
<ignore>९३
ह तैरेव
<p>ते हासुराः पुनरेवोदपतिष्यन्त । ते ह तृतीयस्येह सवनस्य पवमानेषु
यज्ञवास्त्वभ्यायन् । तेषामिमे बिभ्यत एवांशू नुपाकल्पयन् । ते
देवानपाजिघांसन् । तेषामिन्द्रो जगतीमेव प्रतिसंदिदेश । साब्रवीत् बिभेमि
वा एतदेतेभ्यो यथौजीयांसो बलीयांस इमे परावृतन्निति । तस्या इन्द्रः
प्रणवमेव पुरोगामकरोत् । स होवाच । किं मेऽतः स्यादिति । स
होवाचेन्द्रो यत्त्वामुद्गीथेनोपावनेष्यन्ते तेनैव ते कल्पयि
हि तर्ह्
हापश्यदादित्यो वा उद्गीथोऽसौ खल्वादित्यो ब्रह्म । न ह वा एनं मिथु
चिदेमीति । स ह स्वेनैव रूपेणादित्यानगच्छत् । स ह तेनैव वज्रेणासुरान्
पराभावयन् । तद्यत् स्वेनैव रूपेणाविस्तरामगच्छत्तत्प्रतिष्ठामविन्दत् ।
प्रतिष्ठा ह वा एषा यत्प्रणवः । सर्वाणि ह वा इमानि भूतानि प्रणव एव
प्रतितिष्ठन्ति । तस्य ह वा एषा प्रतिष्ठा यत्रासावात्मानमुपसंहृत्याजूगुपत् ।
तस्मात्तदेवोपन्वीतेति तदेवोपासीत । तदेतदृचाभ्युक्तम्--
<verse>चत्वारि शृङ्गा त्रयो अस्य पादाः
द्वे शीर्षे सप्तहस्तासो अस्य ।
त्रिधा <flag>बद्
महो देवो मर्त्या
--
<p>यदिमास्तिस्रोथासाविति चत्वारीति । यदिमे द्वे एवाक्षरे त्रिभिरुपन्वन्ति
तत्त्रय इति । यत्प्रत्यक्षं तद्वे इति । यदुद्गीथं सप्तभिरभिप्रपद्यन्ते तत्सप्तेति ।
अथो खल्वाहुः । सप्तभिरेनं स्वारयन्तीति । यदीमान् त्रीनभिधत्ते तत्त्रि
यदिन्द्र एवोद्गीथस्तद्वृषभ इति । तदेतदृचाभ्युक्तम्
<verse>मरुत्वन्तं वृषभं वावृधानम् ।
य
यद्द्रावयन्ति तद्रोरवीति ॥
</page>