This page has not been fully proofread.

५२
 
सामान्यवेदान्त-उपनिषदः
 
चैतदक्षरम् । सर्वाणि ह वा इमानि भूतान्येतदक्षरमन्वायत्तानि सर्वे वेदाः
सर्वे यज्ञा इत्यथ खल्विन्द्रमन्वायत्तमिति ॥
 
स मंद्रेणैवान्वाभक्तो विदिद्युतेऽञ्जसैव भ्रातृव्यानपहनानीति ।
तस्मान्मन्द्रं प्रातः सवनमभवद्यद्गायत्रं तद्गायत्री तद्गायत्रं यद्वसवः तद्वसव्यम् ।
स ह प्रणव उवाच । यदहं सर्वे भवानि यद्गायत्री वै पुरोगाः तत्किं मे
स्यादिति । गायत्रमन्वेव गायत्रीमन्वेव त्वा सर्वरूपमिमं कृत्वा हिंकुर्वन्ति ।
स हापश्यन्नैतदञ्जसैव सर्वा रूपाण्येवमभिचक्षीरन्निति । स ' हान्तत
एवात्मानमुपसंहृत्य तावदेवाग्राहयत् । स विशृङ्ग एवाभवत् । तस्माद्विशृङ्गमेवैत-
दिहानुद्रवन्ति । तदाहुर्यद्वा एतस्य वीर्य यच्छुकं यज्ज्योतिर्यदमृतं यदजयै
तदवरमिति । तस्मात्तत एवातो ज्योतिरमृतमजर्यं प्रतिपद्यन्ते । ततो हासु-
राः पराभवन् । स एष इन्द्रः सर्वे यद्गायत्री उद्गीथो वसवः प्रातस्सवनमिति ।
तदाहुः । सर्व वा एतदिन्द्रो यज्जगद्यथैवेति ॥
 
ततो हासुराः पुनरेवोदयन्ति । ते ह माध्यंदिनस्यैव सवनस्य
पवमानेषु यज्ञवास्त्वभ्यायन् । तेषां जरितारो बिभ्यत एव वस-
तीवरीरुपाकल्पयन् । ते ह ताभिरेव जिघांसन् । तेषामिन्द्रो रुद्रानेव
सेनान्योऽकः । ते हाक्षीयन्त । स ह त्रिष्टुभमेव प्रतिसंददत् । साब्रवीत् ।
बिभेमि वा एतदेतेभ्यो यथौजीयांसो बलीयांस इमे पराभवन्निति । स ह
प्रणवमेवोवाच पुरोगायमेवारभस्वेति । सोऽब्रवीत् । किं मेऽतः स्यादिति ।
यदहं स त्वं ममैव रूपेण न्यूंखयिप्यन्ति त्वामिति । स हापश्यत् । सर्व
एव न्यूंखयन्तो मामभिचक्षीरन्निति । स ह सर्वमेवात्मानमुपसंहृत्य श्रृंग
एवागूहयत् । स ह विशृङ्ग एवाभवत् । तस्मादित्थैव न्यूंखयन्ति ।
ततो हासुराः पराभावयन् । तस्माद्रुद्रानेव माध्यंदिनं सवनं त्रैष्टुभं
 
चेति ॥