This page has been fully proofread once and needs a second look.

<page>
<ignore>
शौनकोपनिषत्
 
</ignore>
<verse>
यस्य स्मरणमात्रेण सर्वपापैः प्रमुच्यते ।
 

ये पठन्ति सदा भक्त्या सायुज्यपदमाप्नुयुः ॥
 
</verse>
<trailer text="END">
इति विश्रामोपनिषत् संपूर्णा
 
</trailer>
<ignore>
११
 
</ignore>
<title text="START">
शौनकोपनिषत्
 
I
 

 
</title>
<p merge-next="true">
ॐ देवासुराः संयत्ता आसन् । तेषामिन्द्रो न प्रत्यपद्यत । ते ह

वसूनेव प्रातस्सवनेषु पुरोधाय व्यजिगीषन्त । ते ह नुन्नेषु नाराशंसेषु ऋषीणां

यज्ञवास्त्वभ्यायन् हनिष्याम वा एतद्वो यद्देवान्न पराभावयिष्यथेति ।
ते ह
बिभ्यत एव स्तोकानुदकल्पयन् विजेप्ष्यध्वे वावैतानन्विति । ते ह तत
..

एवा
र्तिमा र्च्र्च्छछंस्तानन्वितरान् पराभावयन् । ततो हेन्द्रोऽपश्यत् । स ह

गात्रयत्रीमेव प्रतिसंदिदेश । सा होवाच । बिभेमि वा एतदेतेभ्यो यथैत-

त्परावृतन्निति । स प्रणवमेवास्याः पुरोगमकरोदेष वाव ते गोप्यायेति ।

सा होवाच । यदेष पुरोगाः उदेष मे भागधेयी स्यादिति । स होवाच ।

न ह वावैष त्वद्भागधेयी भवति । महान्वा अस्य महिमा न ह वा महीयांसो

भागक्लृकॢप्तिमप्याभजन्तीति । विश्वमिन्नु समन्वालभध्वमिति । सेनान्यास्तु

प्रथमजानाप्याययिष्यसीत्योमिति होवाच । स होवाच यत्प्रथमं नाभ्यकीर्तयो

नामग्राहमथ नानुवत्स्य इति । नामग्राहमेतेन सर्वमभिपद्यन्ते । सर्वे वा
वं वा
एष सर्वमश्नोतीति । अक्षरं वा एषः । तस्मादोमित्यनुजानन्ति । ओ-

मिति प्रतिपद्यन्त ओमित्यभ्याददत ओमित्यभिनिधापयन्ति । तदेतदक्षरं

जैत्रमभित्वरं सर्वाणि भूतान्यभ्यात्तं यदनेकमेकं नानावर्णेणं नानारूपं

नानाशब्दं नानागन्धं नानारसं नानास्पर्शमिति । अथो खल्वाहुरिन्द्रो वा
 
</p>
</page>