This page has not been fully proofread.

शौनकोपनिषत्
 
यस्य स्मरणमात्रेण सर्वपापैः प्रमुच्यते ।
 
ये पठन्ति सदा भक्त्या सायुज्यपदमाप्नुयुः ॥
 
इति विश्रामोपनिषत् संपूर्णा
 
११
 
शौनकोपनिषत्
 
I
 

 
ॐ देवासुराः संयत्ता आसन् । तेषामिन्द्रो न प्रत्यपद्यत । ते ह
वसूनेव प्रातस्सवनेषु पुरोधाय व्यजिगीषन्त । ते ह नुन्नेषु नाराशंसेषु ऋषीणां
यज्ञवास्त्वभ्यायन् हनिष्याम वा एतद्वो यद्देवान्न पराभावयिष्यथेति ।
बिभ्यत एव स्तोकानुदकल्पयन् विजेप्यध्वे वावैतानन्विति । ते ह तत
..र्तिमा च्र्च्छस्तानन्वितरान् पराभावयन् । ततो हेन्द्रोऽपश्यत् । स ह
गात्रमेव प्रतिसंदिदेश । सा होवाच । बिभेमि वा एतदेतेभ्यो यथैत-
त्परावृतन्निति । स प्रणवमेवास्याः पुरोगमकरोदेष वाव ते गोप्यायेति ।
सा होवाच । यदेष पुरोगाः उदेष मे भागधेयी स्यादिति । स होवाच ।
न ह वावैष त्वद्भागधेयी भवति । महान्वा अस्य महिमा न ह वा महीयांसो
भागक्लृप्तिमप्याभजन्तीति । विश्वमिन्नु समन्वालभध्वमिति । सेनान्यास्तु
प्रथमजानाप्याययिष्यसीत्योमिति होवाच । स होवाच यत्प्रथमं नाभ्यकीर्तयो
नामग्राहमथ नानुवत्स्य इति । नामग्राहमेतेन सर्वमभिपद्यन्ते । सर्वे वा
एष सर्वमनोतीति । अक्षरं वा एषः । तस्मादोमित्यनुजानन्ति । ओ-
मिति प्रतिपद्यन्त ओमित्यभ्याददत ओमित्यभिनिधापयन्ति । तदेतदक्षरं
जैत्रमभित्वरं सर्वाणि भूतान्यभ्यात्तं यदनेकमेकं नानावर्णे नानारूपं
नानाशब्दं नानागन्धं नानारसं नानास्पर्शमिति । अथो खल्वाहुरिन्द्रो वा