This page has been fully proofread once and needs a second look.

<page>
<ignore>
१०
 
</ignore>
<ignore>
सामान्यवेदान्त-उपनिषदः
 
</ignore>
<title>
विश्रामोपनिषत्
 
</title>
<verse>
ॐ पूर्वदले श्वेतवर्णे यदा विश्राम्यते मनः ।

तदा धैर्यमुदारं च धर्मकीर्तिमतिर्भवेत् ॥
</verse>
<verse>
अग्निदले रक्तवर्णे यदा विश्राम्यते मनः ।

तदा क्रोधश्च कामश्च मन्दं बुद्धिर्मतिर्भवेत् ॥
</verse>
<verse>
कृष्णवर्णे दक्षिणदले यदा विश्राम्यते मनः ।

निद्रालस्यभयं देवि मत्सरे च मतिर्भवेत् ॥
</verse>
<verse>
नैर्ऋतदले नीलवर्णे यदा विश्राम्यते मनः ।

तदा क्रोधश्च कामश्च मनोभिन्नमतिर्भवेत् ॥
</verse>
<verse>
पश्चिमदले कपिलवर्णे यदा विश्राम्यते मनः ।

तदा हास्यविनोदौ च उत्साहे च मतिर्भवेत् ॥
</verse>
<verse>
श्यामवर्णे वायुदले यदा विश्राम्यते मनः ।

तदा चिन्तोच्चाटनं च वैराग्ये च मतिर्भवेत् ॥
</verse>
<verse>
पीतवर्णोत्तरदले यदा विश्राम्यते मनः ।

तदा शृंगारभोगौ च कल्पनायां मतिर्भवेत् ॥
</verse>
<verse>
गौरवर्णेशानदले यदा विश्राम्यते मनः ।

तदा कृमात्मानं धर्मकीर्तिमतिर्भवेत् ॥
</verse>
<verse>
सन्धौ सन्धौ मिश्रितानां यदा विश्राम्यते मनः ।

तदा देहो गृहं राज्यं निर्दोषा च मतिर्भवेत् ॥
</verse>
<verse>
श्यामवर्णे मध्यदले यदा विश्राम्यते मनः ।

तदा सर्वगुणं ज्ञानं चैतन्यं च मतिर्भवेत् ॥
 
</verse>
<ignore>
CC.0- Jangamwadi. Math Collection. Digitized by eGangotri
 
</ignore>
</page>