Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
बाष्कलमन्त्रोपनिषत्
 
४५
 
</ignore>
<p merge-next="true">
कीदृशोऽहं एकचक्रः । न खल्वन्योऽहमिव एकेन चक्रेण याति । एवं

सूर्यरूपेण प्रस्तूय चन्द्ररूपेण स्तौति । <bold>अहमिन्नु दिद्युतानो दिवेदिवे तन्वं

पुपुष्यामृतं वहामि ॥ १६ ॥</bold> अहमेव दिवेदिवे प्रतिदिनं तन्वं शरीरं

पुपुष्यान् पोषयन् अमृतं वहामि प्रापयामि प्रजाभ्य इति शेषः । कीदृशः

दिद्युतानः प्रकाशमानः । अथ वायुरूपेण स्तौति । <bold>अहं दिशः प्रदिश

आदिशश्च विष्वक् पुनानः पर्येमि लोकम् ।</bold> स्पष्टम् । अथ पृथिवीरूपेण

स्तौति । <bold>अहं विश्वा ओषधीर्गर्भ आधां याभिरिदं धिनुयुर्दाशुषः

प्रजाः ॥ १७ ॥</bold> विश्वाः सर्वा ओषधीः अन्नानि । आधां दधे ।

दाशुषः यजमानस्य प्रजा याभिरोषधीभिः इदं विश्वं धिनुयुः प्रीणयन्ति ।

अथ सकलजीवरूपतामाह । <bold>अहं चरामि भुवनस्य मध्ये पुनरुच्चावचं

व्यश्नुवानः ।</bold> उच्चावचं ऊर्ध्वमधश्च । आब्रह्मस्तम्बपर्यन्तजीवरूपोऽहमेवेति

भावः । <bold>यो मा वेद निहितं गुहा चित्स इदित्था वोभवीदाशयध्यै ॥१८॥
</bold>
यो मा मां गुहा गुहायामन्तःकरणे निहितं हृत्कमलान्तर्वर्तिनमेतदुक्तरूपाभेदेन

वेद उपास्ते स इत्था इत्थं आशयध्यै आशयितुं आशयं कर्तुं बोभवीति

भवति । इत्थमाशयो ब्रह्मज्ञानी मत्तुल्यो भवतीति यावत् । चिदिति

निरर्थकम् । <bold>अहं पञ्चधा दशधा चैकधा च सहस्रधा नैकधा चासमत्र ।
</bold>
अत्र विश्वस्मिन् । शेषं स्पष्टम् । <bold>मया ततमितीदमश्नुते तदन्यथा सद्यदि

मे असद्विदुः ॥ १९ ॥</bold> मया ततमिदं विश्वमिति । (अमुं अमुं प्रकारं)

अश्नुते प्राप्नोति । तत् तदेतत् मदुक्तम् । अन्यथा असत् अन्यथा

स्यात् । यदि एवं केऽपि ब्रूयुरिति शेषः । तर्हि ते असद्विदुः । स्पष्टम् ।

<bold>
न मामश्नोति जरिता कश्चन न माश्नोति परि गोभिराभिः ।</bold> कश्चित् जरिता

यजमानः मां न अश्नोति न प्राप्नोति । <quote>"न कर्मणा न प्रजया

धनेन"</quote> इति श्रुतेः । आभिर्गोभिर्वाग्भिः वेदैरिति यावत् । न मां परि
 

 
"
 
CC.0- J
</p>
</p
angamwadi Math Collection. Digitized by eGangotri
 
>