2026-02-15 08:34:49 by ambuda-bot
This page has not been fully proofread.
बाष्कलमन्त्रोपनिषत्
४५
कीदृशोऽहं एकचक्रः । न खल्वन्योऽहमिव एकेन चक्रेण ं याति । एवं
सूर्यरूपेण प्रस्तूय चन्द्ररूपेण स्तौति । अहमिन्नु दिद्युतानो दिवेदिवे तन्वं
पुपुष्यामृतं वहामि ॥ १६ ॥ अहमेव दिवेदिवे प्रतिदिनं तन्वं शरीरं
पुपुष्यान् पोषयन् अमृतं वहामि प्रापयामि प्रजाभ्य इति शेषः । कीदृशः
दिद्युतानः प्रकाशमानः । अथ वायुरूपेण स्तौति । अहं दिशः प्रदिश
आदिशश्च विष्वक् पुनानः पर्येमि लोकम् । स्पष्टम् । अथ पृथिवीरूपेण
स्तौति । अहं विश्वा ओषधीर्गर्भ आधां याभिरिदं धिनुयुर्दाशुषः
प्रजाः ॥ १७ ॥ विश्वाः सर्वा ओषधीः अन्नानि । आधां दधे ।
दाशुषः यजमानस्य प्रजा याभिरोषधीभिः इदं विश्वं धिनुयुः प्रीणयन्ति ।
अथ सकलजीवरूपतामाह । अहं चरामि भुवनस्य मध्ये पुनरुच्चावचं
व्यश्नुवानः । उच्चावचं ऊर्ध्वमधश्च । आब्रह्मस्तम्बपर्यन्तजीवरूपोऽहमेवेति
भावः । यो मा वेद निहितं गुहा चित्स इदित्था वोभवीदाशयध्यै ॥१८॥
यो मा मां गुहा गुहायामन्तःकरणे निहितं हृत्कमलान्तर्वर्तिनमेतदुक्तरूपाभेदेन
वेद उपास्ते स इत्था इत्थं आशयध्यै आशयितुं आशयं कर्तुं बोभवीति
भवति । इत्थमाशयो ब्रह्मज्ञानी मत्तुल्यो भवतीति यावत् । चिदिति
निरर्थकम् । अहं पञ्चधा दशधा चैकधा च सहस्रधा नैकधा चासमत्र ।
अत्र विश्वस्मिन् । शेषं स्पष्टम् । मया ततमितीदमश्नुते तदन्यथा सद्यदि
मे असद्विदुः ॥ १९ ॥ मया ततमिदं विश्वमिति । (अमुं अमुं प्रकारं)
अश्नुते प्राप्नोति । तत् तदेतत् मदुक्तम् । अन्यथा असत् अन्यथा
स्यात् । यदि एवं केऽपि ब्रूयुरिति शेषः । तर्हि ते असद्विदुः । स्पष्टम् ।
न मामनोति जरिता कश्चन न मानोति परि गोभिराभिः । कश्चित् जरिता
यजमानः मां न अश्नोति न प्राप्नोति । न कर्मणा न प्रजया
धनेन" इति श्रुतेः । आभिर्गोभिर्वाग्भिः वेदैरिति यावत् । न मां परि
।
"
CC.0- Jangamwadi Math Collection. Digitized by eGangotri