Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
४४
 
66
 
सामान्यवेदान्त-उपनिषदः
 
</ignore>
<p merge-next="true">
द्यावापृथिवी आततानस्तन्वन्नहं जनानां अवसे जनानां अवितुं धर्मं महावीरं

यज्ञशिरो बिभर्मि । इदमुपलक्षणम् । कर्ममार्गप्रवर्तनेनापि लोकरक्षक इति

फलितोऽर्थः । " आहुत्याप्यायते सोमः " इत्यादिस्मृतेः । अहम्<bold>अहमु ह प्रवर्ति
तिं
यज्ञियामियाम् ।</bold> अहं उ ह यज्ञियां प्रवतिं यज्ञसंबन्धिनं काममहमियाम् ।

कर्मफलप्रदोऽप्यहमेवेति भावः । <bold>अहं वेद भुवनस्य नाभिम् ।</bold> त्रैलोक्य-

वर्तिपदार्थमात्रं नाभिपदेनोपलक्ष्यते । <bold>आपिः पिता सूरहमस्य विष्वङ्
</bold> ।
आपिः पितामहः पिता जनकः सूर्माता अहमेव अस्य विश्वस्य । किं च ।

<bold>
अहं दिव्या आन्तरिक्ष्यास्तुका वहं ॥ १३ ॥</bold> दिव्या आन्तरिक्ष्याश्च तुकाः

बिन्दून् अहं वहं वहामि । लकारव्यत्ययः अडागमाभावश्च छान्दसः ।

वृष्टिकर्ताप्यहमेवेत्यर्थः । <bold>अहं वेदानामुत यज्ञानामहं छन्दसामविदं रयीणाम् ।
</bold>
सर्वत्र कर्मणि षष्ठी अविदं वेद्मि । <bold>अहं पचामि सरसः परस्य यदिदेतीव

सरिरस्य मध्ये ॥ १४ ॥</bold> परस्य सरसः समुद्रस्य मध्ये यत् इत् उदर्थे ।

उदेतीव । उदयं बडवानलस्वरूपेण उदयं प्राप्नोतीति यावत् । तत्

बडवानलस्वरूपं तेजः अहमेव सन् सरिरस्य सलिलस्य कर्मणि षष्ठी सलिल-

महमेव पचामि । <bold>अहमिन्नु परमो जातवेदा यमध्वर्युरभिलोकम्पृणैधीत् ।
</bold>
अहमिन्नु परमः पवित्रतमो जातवेदा अग्निः यं जातवेदसं अध्वर्युः अभिलोकं-

पृणा लोकम्पृणामिष्टकामभि लक्षीकृत्य अध्वर्युः ऐधीत् समिद्धं चकार ।

<bold>
यमन्वाह नभसो न पक्षी काष्ठा भिन्दन् गोभिरितोऽमुतश्च ॥ १५
॥</bold>
यमध्वर्युमनु लक्ष्यीकृत्य नभसो न पक्षी नभसः पक्षीव नकार इवार्थे

गोभिर्वाग्भिः । इतः अमुतश्च काष्ठाः दिशं भिन्दन् अन्वाह शंसति ।

होतेति शेषः । <bold>अहमु यन्नपतता रथेन द्विपडारेण प्रधिनैकचक्रः ।</bold> अहं उ ।

द्विषडारेण द्वादशारेण द्वादशमासात्मकेन संवत्सररूपेण अन्तरिक्षेऽपि अपतता

रथेन प्रधिना चक्रधारया उपलक्षितेन यन् गच्छन् यः सोऽहमेवेत्यन्वयः ।
 
CC.0- J
</p>
</p
angamwadi Math Collection. Digitized by eGangotri
 
>