Proofing

This page has not been fully proofread.

४४
 
66
 
सामान्यवेदान्त-उपनिषदः
 
द्यावापृथिवी आततानस्तन्वन्नहं जनानां अवसे जनानां अवितुं धर्मं महावीरं
यज्ञशिरो बिभर्मि । इदमुपलक्षणम् । कर्ममार्गप्रवर्तनेनापि लोकरक्षक इति
फलितोऽर्थः । " आहुत्याप्यायते सोमः " इत्यादिस्मृतेः । अहम् ह प्रवर्ति
यज्ञियामियाम् । अहं उ ह यज्ञियां प्रवतिं यज्ञसंबन्धिनं काममहमियाम् ।
कर्मफलप्रदोऽप्यहमेवेति भावः । अहं वेद भुवनस्य नाभिम् । त्रैलोक्य-
वर्तिपदार्थमात्रं नाभिपदेनोपलक्ष्यते । आपिः पिता सूरहमस्य विष्वङ् ।
आपिः पितामहः पिता जनकः सूर्माता अहमेव अस्य विश्वस्य । किं च ।
अहं दिव्या आन्तरिक्ष्यास्तुका वहं ॥ १३ ॥ दिव्या आन्तरिक्ष्याश्च तुकाः
बिन्दून् अहं वहं वहामि । लकारव्यत्ययः अडागमाभावश्च छान्दसः ।
वृष्टिकर्ताप्यहमेवेत्यर्थः । अहं वेदानामुत यज्ञानामहं छन्दसामविदं रयीणाम् ।
सर्वत्र कर्मणि षष्ठी अविदं वेद्मि । अहं पचामि सरसः परस्य यदिदेतीव
सरिरस्य मध्ये ॥ १४ ॥ परस्य सरसः समुद्रस्य मध्ये यत् इत् उदर्थे ।
उदेतीव । उदयं बडवानलस्वरूपेण उदयं प्राप्नोतीति यावत् । तत्
बडवानलस्वरूपं तेजः अहमेव सन् सरिरस्य सलिलस्य कर्मणि षष्ठी सलिल-
महमेव पचामि । अहमिन्नु परमो जातवेदा यमध्वर्युरभिलोकम्पृणैधीत् ।
अहमिन्नु परमः पवित्रतमो जातवेदा अग्निः यं जातवेदसं अध्वर्युः अभिलोकं-
पृणा लोकम्पृणामिष्टकामभि लक्षीकृत्य अध्वर्युः ऐधीत् समिद्धं चकार ।
यमन्वाह नभसो न पक्षी काष्ठा भिन्दन् गोभिरितोऽमुतश्च ॥ १५ ।
यमध्वर्युमनु लक्ष्यीकृत्य नभसो न पक्षी नभसः पक्षीव नकार इवार्थे
गोभिर्वाग्भिः । इतः अमुतश्च काष्ठाः दिशं भिन्दन् अन्वाह शंसति ।
होतेति शेषः । अहमु यन्नपतता रथेन द्विपडारेण प्रधिनैकचक्रः । अहं उ ।
द्विषडारेण द्वादशारेण द्वादशमासात्मकेन संवत्सररूपेण अन्तरिक्षेऽपि अपतता
रथेन प्रधिना चक्रधारया उपलक्षितेन यन् गच्छन् यः सोऽहमेवेत्यन्वयः ।
 
CC.0- Jangamwadi Math Collection. Digitized by eGangotri