Proofing

This page has not been fully proofread.

बाष्कलमन्त्रोपनिषत्
 
४३
 
संसारेऽस्मिन् विरश्पी विविधं रपति शब्दं करोतीति विरश्पी रपधातोः
शिनिन् । शब्दवान् वेदप्रवक्तेति यावत् । अहं न्वहिं पर्वते शिश्रियाणम् । नु
इति निश्चये । अहमेव नान्यः । अहिं वृत्रासुरं पर्वते शिश्रियाणं पर्वताश्रितं

अहनम् । उग्रो न्वहं तवसावस्युरद्धा ॥ ९ ॥ उग्रः क्रूरकर्मा नु निश्चितं
अहमेव । तवसा वज्रेण अद्धा निश्चितम् । अवस्युः अन्नेच्छुः । ऐश्वर्येच्छुरिति
यावत् । सोऽप्यहमेव । प्रवङ्क्षणानभिदं पर्वतानाम् । प्रवङ्क्षणान् पक्षा
पर्वतानां अभिदं भेदितवानस्मि । यत्सीमिन्द्रो अकरोदनीकैः । यत्
पुरुषसाध्यं कर्मेन्द्रः अनीकैः अकरोत्तत् अहमेवाकरवमिति वाक्यशेपः ।
सीमिति निरर्थको निपातः । को अद्धा वेद क इह प्रवोचत् । अद्धा सत्यं
मम स्वरूपमिति शेषः । को वेद कः वेत्ता । को वा प्रवक्ता । को अश्नव-
दभिमातिं विजघ्नुपः ॥ १० ॥ किं च अभिमातिं अरिसैन्यं विजघ्नुषः
हतवतो मम मामित्यर्थः । कः अश्नवत् कः अश्नोत् । मयि व्यापकतां कर्तुं

न कोऽपि समर्थ इत्यर्थः । को मे अवो दाशुषो विष्वगूतीरित्या ददश्रे
भुवनाधि विश्वा । अवोऽन्नं दाशुषो दत्तवतः मे ऊतीः शक्ती: विश्वा
भुवनान्यधि । अधिरीश्वर इति कर्मप्रवचनीयता । सर्वेषु भुवनेषु कः ददश्रे
कः ददर्श । किं च । रूपंरूपं जनुषा वोभवीमि । जनुषा शरीरग्रहणेन
रूपंरूपं अनेकरूपः बोभवीमि भवामि शुद्धस्य तव कथं शरीरग्रहणमत
आह । मायाभिरेको अभिचाकशानः ॥ ११ ॥ अनेकाभिर्विचित्रशक्ति-
भिर्मायाभिः एकोऽपि अभितः चाकशानः भासमान: मायाप्रतिविम्बित इति
यावत् । किं च । विश्वं विचक्षे यमयन्नभीकः । अभीको निर्भयः विश्वं
यमयन् । अन्तर्यामिस्वरूपेण अधितिष्ठन् । विचक्षे पश्यामि । किं च ।
नेशे मे कश्च महिमानमन्यः । महिमानं प्राप्तुमिति शेषः । स्पष्टम् । किं
च । अहं द्यावापृथिवी आततानो विभर्मि धर्ममवसे जनानाम् ॥ १२ ॥
 
CC.0- Jangamwadi Math Collection. Digitized by eGangotri