This page has not been fully proofread.

बाष्कलमन्त्रोपनिषत्
 
४१
 
असि तत्स्वरूपं कथयेति भावः । अकथनेऽनिष्टं संभाव्यते । तन्मा भवत्वि -
त्याह । न त्वाश्नवद्ब्रह्म रिषा मयस्वि ॥ ३ ॥ मयस्वि तेजस्वि ब्रह्म ब्राह्मण्यं
रिषा क्रोधेन त्वा त्वां न अश्नवत् न अश्नोति न व्याप्नोत् । अस्मदीय-
क्रोधव्यापारविषयो मा भूदित्यभिप्रायः । कुतस्तवैवं बलमत आह । इन्द्रो
नृचक्षा वृषभस्तुराषाट् । इन्द्रः परमेश्वरः नृचक्षा सर्वजगत्कर्मसाक्षी वृषभः
कामप्रदस्तुराषाट् तुरः परवलं सहते अभिभवतीति सहे: छन्दसीति ण्विः ।
प्रसासहितपसा मा विचक्षे । प्रसासहिः प्रसहनशीलः । तपसा उपलक्षणे
तृतीया । मा मां विचक्षे पश्यति । अतः सत्यमकथयत ईश्वराद्भयमप्याह ।
स इद्देवो ऋतमन्वयन्तम् । इत् एवार्थे । स इत् स एव देवः ऋतं सत्यं
अनु लक्षीकृत्य अयन्तं अगच्छन्तं सत्येन पथा अगच्छन्तं सत्यमब्रुवाणमिति
यावत् । प्रभीमकर्मा तवसोऽपविद्धात् ॥ ४ ॥ अपविद्धात् क्षिप्तात् तवसो
वज्रात् प्रभीं प्रकृष्टं भयं मा अकः कार्षीत् । प्रष्टव्यमाह । कुहेव
मावशमितो नया । कुहेव कुत्रेव मा मां अवशं इतः अस्मात् स्थानात्
नयातै नेष्यसि । किं च । कुहेब ते चित्रतमप्रतिष्ठा । स्पष्टम् ।
ईदृष्टे कायवाङ्मनोनिर्निषेवितमीश्वरं स्मरति । कुहाचिदेष स्वपिता पिता
नः । एप मानसप्रत्यक्षो नः पिता ईश्वरः कुहाचित् कुत्र स्वपिता स्वपिति ।
यो न वेद न हृतं हरन्तम् ॥ ५ ॥ यः हृतं मां न वेद न वा हरन्तं
वेदेत्यन्वयः । किं च – इतरेऽप्याजन्मनिषेविता देवा न मत्सहाया इत्याह ।
प्रत्यङ्ङवाङ्माङितरौ च नेह । पञ्चसु दिक्षु तत्र तत्र वर्तमानाः प्राणपञ्चका-
धिष्टातारो देवा लक्ष्यन्ते । इतरौ चेत्यन्तेषु । सर्वत्र सप्तम्यर्थो बोध्यः ।
वर्तमाना इति च शेषः । तेऽत्र देवा अपि किं नेह सन्ति । पक्षान्तरमाह ।
नाहमेनाननुपतस्थिरद्धा । एनान् देवान् । अद्धा सत्येन । अहं नोपतस्थि:
नोपस्थाता इति न । अपि तु उपस्थातैव । किं च । न मामिमे नूनमित्था
 
U 6
 
CC.0- Jangamwadi Math Collection. Digitized by eGangotri