This page has not been fully proofread.

४०
 
सामान्यवेदान्त - उपनिषदः
 
सामवेदब्राह्मणप्रसिद्धमिन्द्रः जहार । द्या मेषभूयोपगतो विदानः । मेषभूयं
मेषभावम् । भुवः क्यप् । उपगतः प्राप्तः । सामवेदब्राह्मणप्रसिद्धाख्यायिकः ।
द्या: स्वर्गलोकान् प्रतीति विवक्षितं जहार हृतवान् । विदानः ज्ञानी ॥
तमन्य इत्तमनं परिप्राद् । तं इन्द्रं अन्य मेधातिथिः इदिति निरर्थको
निपातः । तमनं हरणेन ग्लानिपदम् । परिपृच्छतीति परिप्राट् । मेधातिथिः
पद एनं नियुयुजे परस्मिन् ॥ १ ॥ परस्मिन् पदे ज्ञेये तत्स्वरूपे पदार्थे
नियुयुजे नियुक्तवान् । विलक्षणमेषीभूतेन्द्रकर्तृकविलक्षणक्रियादर्शनात्
आपाततो विलक्षणः परो देवः कश्चिन्न तु मेष इति तात्विकतत्स्वरूपज्ञानाय
वक्ष्यमाणप्रश्न परं पदं ज्ञेयं स्वस्वरूपं कथयेति प्रश्नेन नियोजितवानित्यर्थः ।
प्रश्नमेवाह श्रुतिः । को ह स्मैष भवसि व्यवायः । ह इति पूर्ववृत्तावद्योतको
निपातः । स्मेति निरर्थकम् । एष प्रत्यक्षः । व्यवायो ज्ञेयः । व्यवपूर्व -
स्यैतेर्घञि रूपम् । कच्चित् ज्ञातुं योग्यस्त्वमसि । नावायो म इह शश्वदस्ति ।
मे मम शश्वदिति ध्रुवा आवायो ज्ञानं नास्ति कस्त्वमिति । दृश्यमाने
मेषस्वरूपे कथमेवं संशय इति चेत् । तत्राह । सुशेवमिचंक्रमसि
शोभनमेव चंक्रमणं करोषि । प्रपश्यन् इत्था न कचरणमाचचक्षे ॥ २ ।
इत्था न । इत्थमिव । नकार इवार्थ: । को वा इत्थं क्रममाणं प्रपश्यन्
उरणं मेषं आचचक्षे । उक्तवान् । दृष्टवान् वा । इत्थं क्रममाण उरणो न
केनचिद्दृष्ट इति भावः क्रमेण वैलक्षण्यमेवाह । नेमामस्पृक्षदिदुदस्यमानः ।
इमां पृथिवीं उदस्यमानः । इत् एवार्थे । कूर्दन्नेव न अस्पृक्षत् न स्पृशतीति
लकारव्यत्ययः । नैतावता वैलक्षण्यमत आह । को अद्धामूमभिचङ्क्रमीति ।
अद्धा साक्षात् । अनेनैव शरीरेण । अमूं द्याम् । कः अभिचङ्क्रमीति
अभिक्रामति । प्रश्नमुपसंहरति । तदिच्छाधि यो असि सर्ववित्तमः । तत्
तस्मात् शाधि । इदित्यनर्थकम् । शिक्षय यस्त्वं सर्ववित्तमः सर्वज्ञतमः
 
1
 
1