This page has been fully proofread once and needs a second look.

<page>
<ignore>
बाष्कलमन्त्रोपनिषत्
 
</ignore>
<ignore>
३९
 
</ignore>
<verse>
अहं पञ्चधा दशधा चैकधा च सहस्रधा नैकधा चासमत्र ।

मया ततमितीदमश्नुते तदन्यथासद्यदि मे असद्विदुः ॥ १९ ॥
</verse>
<verse>
न मामश्नोति जरिता न कश्चन न मामश्नोति परि गोभिराभिः ।

न मेऽनाश्वानुत दाश्वानजग्रभीत् सर्व इन्मामुपयन्ति विश्वतः ॥
</verse>
<verse>
क्व शरारुः क्व सृमरः क्व नूरणः सर्वमिदं त्वत्त्वदितो वहामि ।

यन्मदिमे बिभ्यति तन्म एकं ते मे अक्षन्नहमु ताननुक्षम् ॥२१॥
</verse>
<verse>
यत्तप्यथा बहुधा मे पुरा चित्तन्नु भुवेऽहमुरणो बोभुवे ।

ऋतस्य पन्थामसि हि प्रपन्नोऽयसे स मे सत्यमिदेकमेहि ॥ २२ ॥
</verse>
<verse>
अहं ज्योतिरहमृतं विनद्धिरहं जातं जनि जनिष्यमाणम् ।

अहं त्वमहमहं त्वभिन्नु त्वमहं चक्ष्व विचिकित्सीर्म ऋज्वा ॥२३॥
</verse>
<verse>
विश्वशास्ता विधरणो विश्वरूपो रुद्रः प्रणीती तमनः प्रजापतिः ।

हंसो विशोको अजर: पुराण ऋतीयमानो अहमस्मि नाम ॥ २४ ॥
</verse>
<verse>
अहमस्मि जरिता सर्वतोमुखः पर्यारणः परमेष्ठी नृचक्षाः ।

अहं विष्वङ्ङहमस्मि प्रसत्वानहमेकोऽस्मि यदिदं नु किं च ॥
 
</verse>
<trailer text="BASKALA_END">
इति बाष्कलमन्त्रोपनिषत् समाप्ता
 
</trailer>
<title text="BASKALA2_START">
बाष्कलमन्त्रोपनिषत्
 
</title>
<p>
(सवृत्तिका)
 
</p>
<p merge-next="true">
मेधातिथिं काण्वमिन्द्रो जहार इत्याद्या बाष्कलानां मन्त्रोपनिषत् ।

तस्याश्वेचेयमल्पाक्षरा वृत्तिरारभ्यते । मेधातिथिनामानमृषिं कण्वस्य पुत्रं
 
</p>
</page>