This page has not been fully proofread.

बाष्कलमन्त्रोपनिषत्
 
३९
 
अहं पञ्चधा दशधा चैकधा च सहस्रधा नैकधा चासमत्र ।
मया ततमितीदमश्नुते तदन्यथासद्यदि मे असद्विदुः ॥ १९ ॥
न मामनोति जरिता न कश्चन न मामनोति परि गोभिराभिः ।
न मेऽनाश्वानुत दाश्वानजग्रभीत् सर्व इन्मामुपयन्ति विश्वतः ॥
क्व शरारुः क्व सृमरः क्व नूरणः सर्वमिदं त्वत्त्वदितो वहामि ।
यन्मदिमे बिभ्यति तन्म एकं ते मे अक्षन्नहमु ताननुक्षम् ॥२१॥
यत्तप्यथा बहुधा मे पुरा चित्तन्नु भुवेऽहमुरणो बोभुवे ।
ऋतस्य पन्थामसि हि प्रपन्नोऽयसे स मे सत्यमिदेकमेहि ॥ २२ ॥
अहं ज्योतिरहमृतं विनद्धिरहं जातं जनि जनिष्यमाणम् ।
अहं त्वमहमहं त्वभिन्नु त्वमहं चक्ष्व विचिकित्सी ऋज्वा ॥२३॥
विश्वशास्ता विधरणो विश्वरूपो रुद्रः प्रणीती तमनः प्रजापतिः ।
हंसो विशोको अजर: पुराण ऋतीयमानो अहमस्मि नाम ॥ २४ ॥
अहमस्मि जरिता सर्वतोमुखः पर्यारणः परमेष्ठी नृचक्षाः ।
अहं विष्वङ्ङहमस्मि प्रसत्वानहमेकोऽस्मि यदिदं नु किं च ॥
 
इति बाष्कलमन्त्रोपनिषत् समाप्ता
 
बाष्कलमन्त्रोपनिषत्
 
(सवृत्तिका)
 
मेधातिथिं काण्वमिन्द्रो जहार इत्याद्या बाष्कलानां मन्त्रोपनिषत् ।
तस्याश्वेयमल्पाक्षरा वृत्तिरारभ्यते । मेधातिथिनामानमृषिं कण्वस्य पुत्रं